________________
२१८ व्याख्या-आरम्भादियुतत्त्वं ' आरम्भादिनियतत्वं क्रियाणाम्' इति पाक्तनमिहानुषज्यते; 'तच्छक्त्या' आरम्भादिशक्त्या, तुरेवकारार्थों भिन्नक्रमश्च, नत्तु तैः स्फुटै:-स्फुटैरेव तैरारम्भादिभिनेत्यर्थः । अयं भावः-स्थूलकालावच्छेदेन लावदेतत्सूत्रोक्तएजनादिक्रियाणां साक्षादारम्भनियमो वदेरयोगस्य (?) नासम्भवी, इत्यम्भूतनियमस्यापि सूत्रेऽभिधानाद्, अत एव यस्मिन् समये कायिकी क्रिया, तस्मिन् पारितापनिको प्राणातिपातिकी च प्रज्ञापनोक्तेशनियमेनैव वृत्तिकृतोपपादिता । तथाहि-समयग्रहणेन चेह सामान्यः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तस्वरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथम समय एवासम्भवादिति । अयं च नियम आरम्भजातीयस्य दोषत्वस्फुटीकरणार्थ व्यवहारेणोच्यते, न तु केवलिनोऽप्यारम्भो दोष इति नानुपपत्तिः, तथापि निश्चयतो योगानां केवलानामेव यत्पतिबन्धकत्वं परेणोद्भाव्यते, तत्र वयं वदामः-न स्फुटारम्भयुक्तानां नवा केवलानां योगानामन्तक्रियाप्रतिबन्धकत्वं निश्चिनुमः, किन्त्वारम्भशक्तियुक्तानामन्तक्रियाविरोधित्वं प्राणघातानुकूलपुद्गलप्रेरणाकारिस्थूलक्रियारूपारम्भजननशक्तिसाहितैर्योगैः स्थूलक्रियारूपारम्भजननद्वाराऽन्तक्रियाप्रतिघाताद्, अत एव चरमयोगे आरम्भजननशक्त्यनन्वयात् , तेन नान्तक्रियाप्रतिबन्ध इति तदनन्तरमेवान्तक्रियासम्भवस्तदिदमाह- तच्छक्तिविगमे' आरम्भादिजननशक्तिविलये पुनर्योगनिरोधोऽप्रतिवद्धोऽस्वलितसामग्रीकः, चरमयोगक्षणस्यैव योगनिरोधजनकत्वाद् । इदं च सूक्ष्मणुसूत्रनयमतमित्यविरुद्ध मिति मन्तव्यम् ॥६६॥
नन्वेवमनेन सूत्रेण केवलिन आरम्भजननशक्त्यन्वितयोगवत्वं भवद्भिरभ्युपगतम्, तच्चास्माकमपि सम्मतमेव, आरम्भस्वरूपयोग्यतायाः केवलियोगेष्वस्माभिर भ्युपगमात् । नचातः केवलिन्यारम्भसम्भवोऽपि, मोहनीयाभावेन तन्निरूपितफलोपहितयोग्यतायास्तत्रास्वीकारादिति पराशङ्कायामाहपोग्गलपण्डोनणाए जो आरंनो मी किरियाए। णिया मुली नणियोसस्सिअनाएण सोऽदुट्ठो।६।
१ पुद्गलप्रणोदनायां य आरम्भोऽनया क्रियया।
नियमान्मुनीनां अणितः सोऽदुष्टः शास्यिकज्ञातेन ॥ ६७ ॥