SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१७ योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात्, श स्वसम्मतं च योगानामारम्भत्वम् । तदुक्तं भगवतीवृत्तौ - " ननु ' मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतव ' इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः ? उच्यते - आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात्, शेषपदेषु च शेषबन्धहेतुपरिग्रहः प्रतीत एवेति । ” एतच्चायुक्तम्, आरम्भादिशब्दत्रयेण योगाभिधानस्य दुर्घटत्वाद्, एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद्, योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च; नहि घटो घटनाशं प्रति प्रतिबन्धक इति । तस्मादे जनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवतीति भगवतीवृत्तावेवाग्रे व्यतिरेक प्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्व व्याख्यानमेव न्याय्यमिति । यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाज्जीवघातोऽभिमतः, तर्हि " जीवे णं भंते ! सया समिअं एयइ" इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा " सत्तहिं ठाणेहिं केवल जाणेज्जा " - इत्यादि विशेषसूत्र विरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः - इत्याद्युक्तं तदुपहा " पात्रम्, वृत्तिकृदभिप्रायोल्लङ्घनेन स्वस्यैव मतिकल्पनाया महानर्थहेतुत्वात्, 'सत्तहिं ठाणेहिं ' इत्यादिसूत्रस्य भिन्नविषयत्वेन प्रकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारेणानुपदर्शितत्वाच्चेति ॥ ६५॥ स्यादियमाशङ्का—सकलसयोगिगतैजनादि क्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम्, भगवतीवृत्तावेव सूक्ष्मपृथिव्यादीनां साक्षादात्मारम्भकत्वनिषेधाद्, एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानोत्पश्यनन्तरमेव केव - लिनोऽन्तक्रियाप्रसङ्गः । यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदाचिच साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध इत्यत्राह - 'आरंचाइजुमत्तं तस्सत्तीए फुडेई (हिं) ए उ तेहिं । तस्सत्ती विगमे पुण जोग गिरोहो अपडिबधो ॥ ६६ ॥ १ आरम्भादियुतत्वं तच्छक्त्यां स्फुटैर्न तु तैः । तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः ॥ ६६ ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy