________________
त्पठ्यते 'दुक्खावणयाए' इत्यादि, तच्च व्यक्तमेवः । यच्च तत्र “किलामणयाए उद्दवणया' इत्यधिकमभिधीयते, तत्र 'किलामणाए ' त्ति ग्लानिनयने, 'उहवणयाए' त्ति उत्रासन इति । अत्र ोजनादिक्रियाणामारम्भादिद्वारैवान्तक्रियाविरोधित्वं प्रतोयते । आरम्भादीनां चैजनादि क्रियानियतत्वम्, नियमश्चायं यथासम्भवं द्रष्टव्यः, तेन नाप्रमत्तानामारम्भवत्संरम्भसमारम्भयोरप्यापत्तिरिति श्रद्धाः। युक्तं चैतत्-" 'जाव णं एस जीवे सया समिअं एअइ वेयइ जाव तं तं भावं परिणमइ ताव णं अट्टविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहवंधए वा, नोणं अबंधए ।” इत्यत्रैजनादिक्रियाणामष्टविधायन्यतरबन्धव्याप्यत्ववत्मकृतेरप्यारम्भाद्यन्यतरव्याप्यत्वस्यैव व्युत्पत्तिमर्यादया लाभात् । परः पुनरेनमेवार्थं " सुमुनीनां शोभना मुनयः सुमुनयः सुसाधवस्तेषामप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानं यावदारम्भे वर्तमानानामप्यारम्भिकी क्रिया न भवति" इत्यादि स्वयमेव ग्रन्थान्तरे लिखितमस्मरनिवान्यथैवात्र व्याख्याप्रकारमारचयति । तथाहि-अन्तक्रियाप्रतिबन्धकास्तावद्योगा एव, यावद् · योगास्तावदन्तक्रिया न भवति, योगनिरोधे च भवतीति तेषां तत्प्रतिबन्धकत्वाद्, यदभावो यत्र कारणं तदेव तत्र प्रतिबन्धकमिति जगत्स्थितेः । न चैवं क्वाप्यागमे जीवधातनिरोधे तज्जन्यकर्मबन्धनिरोधे वाऽन्तक्रिया भणिता । तस्मात्साक्षाजीवघातलक्षण आरम्भो नान्तक्रियायाः प्रतिबन्धकः, तदभावेऽन्तक्रियाया अभणनात् , प्रत्युतान्निकापुत्राचार्यगजसुकुमारादिदृष्टान्तेन सत्यामपि जीवविराधनायां केवलज्ञानान्तक्रिययोर्जायमानत्वात् कुतस्तत्पतिबधकत्वशङ्कापाति । अत्र सूत्रे एजनादिक्रियाजन्यआरम्भो न भणितः, किन्तु क्रियारम्भयोरेकाधिकरणे नियमो भणितः, स वैवं-यावत्कालं यतनादिक्रियावान् तावत्कालं स आरम्भादिमानेव; एवं च सति कम्पनादिक्रिया व्याप्या, आरम्भश्च व्यापकः, तेन कम्पनादिक्रिया नारम्भहेतुः, किन्त्वारम्भः कम्पनादिक्रियाहेतुः। यथा ' यावत्कालं यो धूमवाँ स्ताक्त्कालं स आर्दैन्धनमभववहिमानेव' इत्यत्र धूमस्तथाभूतवह्वेर्जनको न भवति, भवति च तथाभूतो वहिधूमजनक इति । अतः क्रियापतिबन्धकारम्भव्याप्यत्वेन कम्पनादिक्रियाणामन्तक्रियाप्रतिबन्धकत्वं व्याख्येयम् , आरम्भशब्देन च
१ यावदेष जीवः सदा समितमेजते, व्येजते यावत् तं तं भावं परिणमते तावदष्टविधबन्धको वा सप्तविध बन्धको वा षड्विधबन्धको वा एकविधबन्ध. को वा; नो अबन्धकः ॥