________________
२१९
व्याख्या - 'पोग्गलपणोलणाएं 'ति । अनयाऽऽरम्भशक्त्या हेतुभूतैया क्रियया- एजनादिलक्षणया पुद्गलप्रणोदनायां जीवघन लोकान्तर स्थापरे। परपुगलप्रेरणायां तथाविधसहकारिसम्पर्कसमुद्भूतायां सत्यां य आरम्भ भवति से नियमान्मुनीनां शास्यिकज्ञातेनादुष्टो भणितः ।
अयं भावः:- स्थूलक्रियाया (यां ) पुद्गलप्रेरणायामारम्भस्तावत्साधूनामध्यवर्जनीयो भवति । अत एवाहारकसमुद्घातनिःसृष्टपुद्गलैरपि शरीरसम्बद्धैस्तर्दसम्बद्धैर्वा प्राणादिघाते त्रित्रियत्वादिकमुक्तम् । तथा च समुद्घातपदे प्रज्ञापनासूत्रम् - " " तेणं भंते! पोग्गला णिच्छूढा समाणा जाई तत्थ पाणाई भूआईं जीवाई सत्ताई अभिहणंति जाव उवनि, ते णं जीवे कइकिरिए ? गो० ! सिय तिकिरिए सिय चउकिरिए सिय पंच करिए । ते णं भंते! जीवा ताओ
are as करिआ ? एवं चैव से णं भंते ! जीवे ते अजीवा अण्णेसिं जीवाणं परं पराघाएणं कइकिरिया ? गो० ! तिकिरियावि चउकिरियावि पंच करिया वित्ति" । परं प्रमत्ततादशायामारम्भप्रत्यया क्रिया निमित्तम्, अप्रमत्ततादशायां तु धार्मिकक्रियायोगान्तर्भूततया शास्यिकदृष्टान्तेन हितत्वाद् योगातिरिक्तदोषविधया न दोषभाक् । तदुक्तं बृहत्कल्पभाष्ये - " २ आहारणीहारविहीसु जोगों, Rat अदोसाय जहा जयस्स । हिआय सस्संमि व सस्सियस्स भंडस्स एयं परिकम्मणं तु ।। १ ।। ” यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह - ' हियाय सस्संमिव सस्सिअस 'ति । शस्येन चरतीति शास्यिकः, तस्य यथा तद्विषयं परिकर्मणं नंदितादिकं हिताय भवति, तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तंयद्वच्छस्य हितार्थं शस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति शस्यपौडा, यत्न
66
१ तेन भदन्त ! पुद्गला निःक्षिप्ताः सन्तः यान् तत्र प्राणान् भूतान् जीवान् सच्चानि अभिन्नन्ति, यावदुपद्रवन्ति स भदन्त ! जीवः कतिक्रियः गौं० ! स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात्पञ्चक्रियः । ते च भदन्त जीवाः ते कतिक्रियाः । एवमेव स च भदन्त ! जीवः । ते अजीवा अन्येषां जीवानां परम्पराघातेन कतिक्रियाः ? गौ० ! स्याद् त्रिक्रिया अपि चतुष्क्रिया अपि, पञ्चक्रिया वेति ॥
२ आहारनीहारविधिषु योगः सर्वोऽदोषाय यथा यतस्य । हिताय शस्य इव शास्यिकस्य भाण्डस्यैतत्परिकर्मणं तु ॥