________________
२२०
वतः साऽल्पदोषाय ॥ १ ॥ तद्रज्जीवहितार्थं जोवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा यत्नवतः साल्पदोषाय ॥ २ ॥” इति । तथा च स्थूलक्रियैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवंभूताररम्भस्य भगवति सत्वे न बाधकमित्यारम्भशक्तिरेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेन कार्य कुर्वत एव कारणत्वाभ्युपगमाद् । न च शक्तिविशेषं विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तत्वापत्तेः । न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद्-इत्यारम्भशक्तिसत्वे केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति ॥ ६७ ॥
एतदेवाह -
'सो केवलियो विहवे चलोवगरणत्तणं जमेयस्स । सहगारिवसा यियं पायं थलाइ किरियाए ॥ ६८ ॥
व्याख्या- -' सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः केवलिनोऽपि भवेद्, यद् यस्मादेतस्य केवलिन लोपकरणत्वं सहकारिवशाद् - गमनक्रियापरिणामादिसहकारिवशात्प्रायः स्थूलया क्रियया नियतं वर्त्तते ।
अयं भावः--चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम् - " केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा ऊरुं वा ओगाहित्ता णं चिट्ठह्न पभू णं केवली सेअकालंसि तेसु चैव आगासपएसे हत्थं वा जाव ओगाहित्ता णं चिट्ठित्तए ? गो० णो इणट्टे समट्ठे ।
१
स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य । सहकारिवशान्नियतं प्रायः स्थूलया क्रियया ॥ ६८ ॥
१ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा ऊरुं वा अवगाह्य तिष्ठति प्रभुः केवली पष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम ! नायमर्थः समर्थः । स केनार्थेन भदन्त ! एवमुच्यते- यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावत्तिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा यावत्स्थातुम् । गौतम ! केवलिनो वीर्यसयोगसद्रव्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्ति - कृति, न प्रभुः केवली एष्यत्कालेऽपि तेष्वेव स्थातुम्, स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् ।