________________
से केणडेणं भंते ! एवं वुच्चइ ? जाव केवली णं अस्सि समयंसि जेसु आगासपएसेसु जाव चिट्ठइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपएसेसु हत्थं वा जाव चिट्टित्तए ? गो० केवलिस्स णं वीरियसजोगसद्दचयाए चलाई उवगरणाइं भवंति, चलोवगरणट्टयाए अ णं केवली अस्सि समयंसि जेसु आगासपएसेमु हत्यं वा जाव चिट्टइ, णो णं पभू केवली सेयकालंसि वि तेसु चेव चिट्टित्तए, सो तेणटेणं जाव वुच्चइ केवली अस्सि समयंसि जाव चिहित्तए " ॥
एतवृत्तियथा-'अस्सि समयंसि त्ति । अस्मिन् वर्तमानसमये 'उग्गाहित्ताणं' ति अवगाह्य-आक्रम्य ' सेयकालंसि वि' त्ति एष्यत्कालेऽपि वीरियसजोगसद्दवयाए 'त्ति वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः तत्पधानं सयोगं मानसादिव्यापारयुक्तं यत् सद्विद्यमानं द्रव्यं जीवद्रव्यं तत्तथा, वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद्र्व्यं विशेषितम् । सदिति विशेषणं च तस्य सदा सत्तावधारणार्थम् । अथवा स्व आत्मा तद्रपं स्वद्रव्यम् , ततः कर्मधारयः, अथवा वीर्यप्रधानः सयोगो योगवान् वीर्यसयोगः, स चासौ सद्रव्यश्च मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्रव्यस्तस्य भावस्तत्ता, तया हेतुभूतया 'चलाई' ति अस्थिराणि 'उवगरणाई' अङ्गानि, 'चलोवगरणट्टयाए अ'त्ति चलोपकरणलक्षणो योऽर्थस्तद्भावश्चलोपकरणता तया, चशब्दः पुनरर्थ इति "॥ __ एतच्च चलोपकरणत्वं निरन्तरसूक्ष्मगात्रसञ्चारबीजं चलनसामान्यसामग्र्यां निविशमानं गमनादिक्रियापरिणाममात्रसहकृतं सद् गमनादिस्थूलक्रियामपि जनयत्येव । सा च स्थूलक्रियाऽवर्जनीयारम्भसङ्गता सती केवलिनो न वीर्यान्तरायक्षयक्षतिकरी, यतस्तत्सामान्यकारणं चलोपकरणत्वमपि नामकर्मपरिणतिविशेषापादितयोगाशक्तिनियतमेव । यदाह सूत्रकृतावृत्तिकृत्-" सयोगी जीवो न शक्रोति क्षणमप्येकनिश्चलं स्थातुम् , अग्निना ताप्यमानोदकवत् कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते ” इत्यादीति । तत्कार्यस्थूलक्रियायामप्यशक्यपरिहारारम्भत्यागे योगाशक्तिरेव निमित्तमिति । केचित्तु सूक्ष्मक्रियाणामिव स्थूल क्रियाणामपि चलोपकरणतावशादनियतदेशत्वावश्यकत्वात् तत्पयुक्तारम्भसम्भवः केवलिनोऽपि दुर्निवार इत्याहुः ॥६८॥
ननु यद्येवं स्थूलक्रियैव द्रव्यारम्भस्तदा केवलिनस्तस्य कादाचित्कत्वं न स्याद्, इष्यते चायमन्यसाधूनामपि कादाचित्क एव, 'आहच्च हिंसा समिअस्स जा उ सा