________________
२३६ स्पर्शः केवलिनो नतु स्वतन्त्रस्येति चेद् । नेयं भाषा भवतस्त्राणाय, “ खीणम्मि अंतराए णो से य असकपरिहारो" त्ति वाङ्मात्रेणाशक्यपरिहाराभावमावेदयत आयुष्मतः केवलिनः परतत्रतयापि जलादिस्पर्शतज्जीवविराधनयोरभ्युपगन्तुमनुचितत्वाद्, अन्यथा केवली यत्र स्थितस्तत्रागन्तुकवायोरपि सचित्तताया अनिषेधप्रसङ्गात् । तस्मात् सचित्तजलादिस्पर्शन केवलिनः सयोगस्याप्यवश्यंभाविनी जीवविराधना वा स्वीक्रियताम्, तद्योगाक्रान्तानामपि वा जीवानामघातपरिणाम एव (मो वा) स्वीक्रियतां नतु तृतीया गतिरस्ति । तत्र च प्रथमः पक्षोऽस्मन्मतप्रवेशभयादेव त्वयानाभ्युपगन्तव्य इति द्वितीयः पक्षस्तवाभ्युपगतुमशिष्यते (त)॥
तत्राह-- एवं सवजिआण जोगायो च्चिय अघायपरिणामे। केवलिणो उल्लंघणपलंघाईण वेफन्नं ॥1॥
व्याख्या--' एवं ' ति । एवं जलादिस्पर्शाभावाभ्युपगमस्य विरोधग्रस्तत्वे सर्वजीवानां केवलिनो योगादेवाघातपरिणामे स्वीक्रियमाणे उल्लङ्घनालङ्घनादीनां व्यापाराणां वैफल्यं प्रसज्यते । स्वावच्छिन्नप्रदेशवर्तिजीवेषु केवलियोगक्रियाजनितात् केवलियोगजन्यजीवघातप्रतिबन्धकपरिणामादेव जीवघाताभावोपपत्तौ हि जीवाकुलां भूमि वील्य केवलिन उल्लङ्घनादिकमकर्त्तव्यमेव स्यात् , प्रत्युत तेषु स्वयोगव्यापार एव कर्त्तव्यः स्यात, तस्य जीवरक्षाहेतुत्वादिति महदसमअसमापद्यते । यदि चोल्लवनादिव्यापारः शास्त्रसिद्धः केवलिनोऽप्यभ्युपगन्तव्यस्तदा केवलियोगानां न स्वरूपतो रक्षाहेतुत्वं, किन्तु नियतव्यापारद्वारेति तदविषयावश्यंभाविजीवविराधना दुर्निवारा । यदि च केवलियोगानां स्वरूपत एव जीवरक्षाहेतुत्वम्, उल्लङ्घनादिव्यापारश्च न तस्य जीवरक्षामात्रप्रयोजना, किन्तु स्वव्यवहारानुपातिश्रुतव्यवहारपरिपालनमात्रप्रयोजन इति विभाव्यते, तदा तादृशादपि ततो जीवानामपसरणं भवति नवेति वक्तव्यम् । आये साऽपसरणक्रिया भयपूर्विकेति केवलियोगात्पृथिव्यादिजीवाभयलेशमपि न प्राप्नुवन्तीति स्वप्रतिज्ञाव्याघातः। अन्त्ये चादृष्टपरिकल्पना, नाल्लङ्घनादिक्रिययोल्लङ्घ मानादिजीवानामनपसरणं क्वापि दृष्टमिति । किंच-एवमादिपदग्राह्यप्रतिलेखनावैफल्यं दुरुद्धरमेव, जीवसंसक्तवस्त्रादेर्विविक्तीकरणेनैव तत्साफल्यसम्भकाद् । न च तत्केवलियोगाजोवानामनपसरणस्वभावकल्पने निर्बहतीति ॥ ८० ॥