________________
२३७
एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैकल्यापत्तौ व्यवस्थापितायां केवलियोगव्यापारकाले जीवानां स्वत एव पसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याह-
एएए मच्छियाई सहावकिरियापरायणा हुंति ।
व्याख्या--'
हु जिकिरियापेरियकिरियं जंतित्ति पमिसिद्ध । ८१ ॥ एएण मच्छिआइ 'ति । एतेनोक्तहेतुना मक्षिकादयो मक्षिकापिपीलिकादंशमशुकादयः स्वभावक्रियापरायणाः सहजसमुत्थगमनादिक्रियाकारिणो भवन्ति, 'हु ' नैव जिनस्य या क्रिया गमनागमनादिरूपा तया प्रेरिता - तन्निमित्तका या क्रिया तां यान्ति - केवलियोगहेतुकस्वशरीर सङ्कोचमपि न कुर्वन्तीत्यर्थः । केवलिनो हि गमनागमनादिपरिणतौ पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपसृता वा भवन्ति । यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा केवलो तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मोयासा तवेदनीयकर्मक्षयस्य दृष्टत्वात् ।
aa haलियोगजनितां किमपि क्रियां कुर्वन्ति तदिदमाह
" तेणं मच्छिअपमुहा सहावकिरिया परायणा हुंति ।
य जिकिरियापेरिअ किरियाले संपि कुवंति " ॥ -
इत्येतत् प्रतिषिद्धं, स्वत एव जीवानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वज्रलेपत्वाद् । यच्च केवलियोगव्यापारमपेक्ष्य जीवानां स्वतोऽपसरणस्वभावत्वकल्पनं तदपां दहनान्तिके दाहजननस्वभावकल्पनसदृशमेव । अथ केवलिनः प्रतिलेखनादिव्यापाराज्जीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलिक्रिया निमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया प्रतिषिध्यतेः नह्यभयदस्य भगवतः प्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवति परेषां भापनस्य भयमोहनायाश्रवत्वात्, ततः केवलिक्रियातः प्रतिलेखनादिव्यापारकाले या प्राणिनामपसरणादिक्रिया भवति सा न भयमूलेति स्वत एवेत्युच्यत इति चेत् । न भयं विनैव केवलियोगात् सच्चासरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकाभावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् । आवश्यकक्रियावश्यंभाविना च प्राणिभयेन च यदि भयमोहनीयाश्रवभूतं भा