SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३५ चेत्, तर्हि जलाचित्तताकल्पने तव का व्यसनिता ? सचितमेव जलं केवलियोगमवेक्ष्याघात्यस्वभावं त्वया किं न कल्प्यते ? न खलु तव श्रुतपरम्पराङ्कुशरहितस्यादृष्टार्थकल्पने बाधकमस्ति न चेदेवं तदा सचित्तवायुस्पर्शेऽपि तव केवलियोगानामघातकत्वसमर्थनं कथं स्याद् ? इति । अथ वायुरपि सचित्ताचित्ततया प्रवचने द्विप्रकार उक्त इति सचित्तवायुस्पर्शमपि भगवतो नाभ्युपगच्छामः, किं त्वचित्तवायुस्पर्शमेव, अन्यथा तु भगवत्कायस्पर्शेनापि पृथिव्यादीनां भयोत्पत्तिः स्याद्, न चैवं सम्भवति । यदस्माकमभ्युपगमः- ८८ १ 'पुढवीपमुहा जीवा उत्पत्तिप्पमुहभाइणो हुँति । जह केवलिजोगाओ भयाइलेसंपि ण लर्हति ॥ १ ॥ 35 इति चेत्, हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह - सचित्तस्यास्पर्शो न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनिनत्वाद् । अथ न सचित्तस्पर्शाभावमात्रं भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजल | दिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति ॥ ७८ ॥ तत्राह- सोइसो कायको जागकओ वा हविऊं केवलिणो । दुहप्रो वरिय पुत्राणाय पायमविरोहो ॥ ७७ ॥ व्याख्या:--' सोइसओ ' त्ति । स जलादिस्पर्शाभावलक्षणोऽतिशयः कायकृतः - काय निष्टफलविपाकप्रदर्शको योगकृतो वा - योगनिष्टफलविपाकप्रदर्शको वा केवलिनो भवेद् । उभयतोऽप्यन्निकापुत्रादिज्ञाततः प्रकटविरोध एव । ननिकापुत्र - गजमुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तज्जीवविराधनाऽविशेषेण घुणाक्षरन्यायेन स्वयमेव भवता स्वग्रन्थे क्वापि लिखिता; स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लङ्घ्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः । परतन्त्रस्यैवायं जलादि १ पृथिवीप्रमुखा जीवा उत्पत्तिप्रमुखभाजो भवन्ति । यथा केवलियोगाद् भयादिलेशमपि न लभन्ते ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy