________________
२३४
व्याख्या -'भण्णइ 'त्ति । भण्यते-अत्रोत्तरं दीयते, सर्वमेतत् , 'नु' इति वितर्के, त्वया परस्परविरुद्धं भणितम्, यद् यस्माद्दार्टान्तिकदृष्टान्तौ नैकरूपौ सम्पन्नौ ॥ ७७॥
तथा हि-- 'एगत्य जलमचित्तं अएणत्थ सचित्तयंति महने। अफुसिअगमणं तीएणमुग्रंपएणस्सव जिणस्सा।
व्याख्या:--' एगत्य 'त्ति । एकत्र पुष्पचूलाया वर्षति मेघे गमनेऽचित्तं जलं साक्षादेव शास्त्रे प्रोक्तम्, अन्यत्र केवलिनां विहारादौ नद्युत्तारे च जलं सचित्तमिति महान् तयोदृष्टान्तदान्तिकयोर्भेदः । नहि केवलिनो विहारादावनियतनद्युत्तारे निरन्तरप्रवाहपतितं तज्जलमचित्तमेवेति क्याप्युक्तमस्ति । अथैवमप्युक्तं नास्ति यदुत तीर्थकुद्व्यतिरिक्तोऽमुकनामा केवली नदीमुत्तीर्णवानिति, तीर्थकृतस्तु सुरसञ्चारितकनककमलोपरि गमनागमनपरिणतस्य जलस्पर्शस्याप्यभावा तथा पि केवलिनो नद्युत्तरणसम्भावनायामचित्तप्रदेशैरेव नद्युत्तारः कल्प्यते, नहि स विविच्य व्यवहत्तँ परिहत्तुं च जानन् सचित्तप्रदेशै दोमुत्तरति; केवलित्वहानेः। तस्मात्पुष्पचूलादिदृष्टान्ते नद्यादौ यथास्थितमेव जलं जलवायुसूर्यकिरणादिलक्षणस्वकायपरकायशस्त्रादिना तथाविधकालादिसामग्रीयोगेन कदाचिदचित्ततया परिणमति; पुनरपि तदेव जलं सचित्तभवनहेतुकालादिसामग्रीयोगेन सचित्ततया पि परिणमति । तत्र दृष्टान्तः सम्मृर्छिममनुष्योत्पत्तिस्थानान्येव, परमेतत्परिणतिस्तथाभूता केवलिगम्येति । केवली तथापरिणतं जलं निश्चित्य नदीमुत्तरतीति कल्प्यत इति चेत्, सर्वमेतदभिनिवेशविजृम्भितम् । स्वकर्णाश्रवणमात्रेण केवलिनो नद्युत्तारस्य निषेछुमशक्यत्वाद् । अन्ततोऽनन्तानां जलमध्येऽन्तकृत्केवलिनामपि श्रवणेन सर्वत्र जलाचित्तता कल्पनस्याप्रामाणिकत्वात् । किञ्च सर्वत्र स्वोत्तरणादिकाले जलमचित्ततया परिणतं तदाश्रितपनकासादिजीवाश्चाक्रान्ता इति किं तव कर्णे केवलिनोक्तम् ? येनेत्थं कल्पयसि । पुष्पचूलादृष्टान्तेन तथा कल्पयामीति चेत्, तत्कि दृष्टान्तमात्रेण साध्यं साधयन्नपूर्वनैयायिकत्वमात्मनःप्र. कटीकत्र्तमुद्यतोऽसि । केवलियोगानामघातकत्वान्यथानुपपत्यैव तथा कल्पयामीति १ एकत्र जलमचित्तमन्यत्र सचित्तमिति महान् भेदः ।
अस्पृष्टगमनं तस्या न श्रुतमन्यस्य वा जिनस्य ॥