________________
४०
"
86
तदेवंविधवचनैरनादिसूक्ष्मनिगोदस्यैवा सांव्यवहारिकत्वम्, अन्य पांच व्यावहारिकत्वमिति स्थितौ परोक्ता युक्तिरेकाऽवतिष्ठते । तत्र सिज्झति जन्तिया किर०" इत्यादिना व्यवहारराशितः सिद्धानामनन्तगुणत्वं व्यवस्थाप्य तदनन्तगुणत्वेन बादरनिगदिजीवाना मंत्र्यावहारिकत्वं च व्यवस्थापितम् । तदसत् सिद्ध्यवच्छिन्नव्यवहारसइयपेक्षया सिद्धानामनन्तगुणत्वसिद्धावपि सामान्यापेक्षया तदसिद्धेः, व्यवहारित्वभवन सिद्विगमनयोर पर्यवसितत्वं चानादिसुक्ष्मभिगोदान्नपतव्यवहारित्वाभिमुखजीवानां निर्गमान्नानुपपन्नम् । आवलिका संख्येयभागपुद्गलपरावर्तमानत्वेन व्यवहारिकाणां सर्वेषां सिद्ध्यापत्तिस्तु स्वात् । तत्राभव्यस्य व्यावहारिकत्वानुरोधेन निगोदत्वेन तिर्यक्त्वनपुंसकत्वादिना च कायस्थितिप्रतिपादकानां सूत्राणां व्यावहारिकविशेपविषयत्वं वा कल्पनीयम्, अन्यो वा कश्चित्सूत्राभिप्राय इत्यत्र बहुश्रुता एव प्रमाणम् । अवश्यं च सूत्राभिप्रायः कोऽपि मृग्यः, अन्यथा बहवो भव्यास्तावदेतावतः कालात्सिध्यन्ति, अन्ये तु स्वल्पात्, अपरें तु स्वल्पतरात् यावत्केचिन्मरुदेवीस्वामिनीवत्स्वल्पेनैव कालेन सिध्यन्ति | अभव्यास्तु कदाचिदपि न सिध्यन्ति, भवभावनावृत्यादिवचनादभव्यानां भव्यानां च यदुक्ताधिकसंसार भेदभणनं तन्नोपपद्येत । यत्तु परेणोक्तम् - यत्तु क्वचिदाधुनिकप्रकरणादौ प्रज्ञापनायागमविरुद्वानि वचनानि भवन्ति, तत्र तीर्थान्तरवर्तिनाम सद् ग्रहाभावादना भोग एव कारणम् । तथा अभव्या न व्यवहारिणो नाप्यव्यवहारिणः, किन्तु व्यवहारित्वादिव्यपदेशबाह्या इति ते व्यावहारिकमध्ये विवक्षितास्तेषां सम्यक्त्वप्रतिपतितानामनन्तभागवर्तित्वेनाल्पत्वादिति ॥ तदतिसाहसविजृम्भितम् अभिप्रायमज्ञात्वा प्राचीन प्रकरणविलापे महाशातनाप्रसङ्गात् । अभत्र्यानामपि व्यावहारिकबाहेर्भाव नियत कार्यस्थितिसंसारपरिभ्रमणानुपपत्तेर्यादृच्छिक कल्पनया समंजसत्वप्रसङ्गात्, नोव्यवहारित्व-नो अव्यवहारित्व परिभाषामात्रस्य चाभव्येष्विवोक्ताधिकसंसारिजीवेष्वपि कल्पयितुं चाशक्यत्वाच्च न किंचिदेतदिति दिग् ॥ ९ ॥
,
5
तदेवमभव्यस्याप्याभिग्रहिकं मिथ्यात्वं भवतीति प्रदर्शयितुमाभिग्रहिकस्य षड् भेदा उक्ताः । अथानाभिग्रहिकादीनामपि सामान्येन बहुप्रकारत्वं निर्दिशन्नेतेषु गुरुलघुभावं विवेचयति