________________
तत्तोषि समुहा पुढविजलानलसमीर ममि । असंखोसप्पिणिसप्पिणीओ णिवसति पत्तेयं ॥ ३ ॥ संखेज्जं पुण कालं वसंति विगलिदिए पत्तेयं । एवं पुणो णोवि य भमंति ववहाररासिंमि || ४ | " तल्लघुवृत्तावप्युक्तम्
आदौ सूक्ष्मनिगोदे जीवस्यानन्तपुद्गलविवर्तान् । तस्मात्कालमनन्तं व्यवहारवनस्पतौ वासः ॥ १ ॥ उत्सर्पिणीरसंख्याः प्रत्येकं भूजलानिपवनेषु । विकलेषु च संख्येयं कालं भूयो भ्रमणमेव ॥ २ ॥ तिर्यक्पञ्चेन्द्रियतां कथमपि मानुष्यकं ततोऽपीह | क्षेत्रकुलारोम्यायुर्बुद्धयादि यथोत्तरं तु दुरवापम् ॥ ३ ॥ धर्मरत्नप्रकरणवृत्तावप्युक्तम्
भ्यस्तुन्नमनार्थ प्रययौ नत्वा गुरून् समयविधिना । निषसाद यथास्थानकमथ सूरिर्देशनां चक्रे ॥ १ ॥ अव्यवहारिकराशौ भ्रमयित्वाऽनन्तपुद्गलविवर्तान् । व्यवहृतिराशौ कथमपि जीवोऽयं विशति तत्रापि ॥ २ ॥ बादरनिगोद-पृथिवी-जल- दहन - समीरणेषु जलधीनाम् । सप्ततिकोटाकोट्यः कायस्थितिकाल उत्कृष्टः ॥ ३ ॥ सूक्ष्मेष्वमीषु पञ्चस्ववसर्पिण्यो ह्यसंख्यलोकसमाः । सामान्यबादरेऽङ्गुलगणनातीतांशमानास्ताः ॥ ४ ॥ " इत्यादि ॥
संस्कृतनवतत्त्वसूत्रे ऽप्युक्तम्
निगोदा एव गदिता जिनैरव्यवहारिणः । सूक्ष्मास्तदितरे जीवास्तान्यपि व्यवहारिणः ॥ १ ॥ " इति ।
ततोऽपि समुवृत्तां पृथिवी जला-नल- समीरमध्ये | असंख्योत्सर्पिण्यवसर्पिणीर्निवसन्ति प्रत्येकम् ॥ ३ ॥ संख्येयं पुनः कालं वसन्ति विकलेन्द्रियेषु प्रत्येकम् । एवं पुनः पुनरपि च भ्रमन्ति व्यवहारराशौ ॥ ४ ॥