________________
धनतिलकश्रेष्ठिनो जातस्त्वं वैश्रमणनामा पुत्रः । तत्र च 'स्वजन-धन-भवनयौवन-वनिता-तत्त्वाद्यनित्यमिदमखिलं ज्ञात्वा यत्राणसहं धर्म शरणं भवत लोकार इति वचनश्रवणाज्जाता धर्मकरणबुद्धिः केवलम् । साऽपि कुदृष्टिसभवा महापापबुद्धिरेव परमार्थतः संजाता। तद्वशीकृतेन च स्वयंभूनाम्नास्त्रिदण्डिनः शिष्यत्वं प्रतिपत्रम् । ततस्तदपि मानुषत्वं हारयित्वा व्यावर्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्तानिति । ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वम् , परं न निवृत्ताऽसौ कुधर्मबुद्धिः । शुद्धधर्मश्रवणाभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात् । क्वचिच्छुधर्मश्रवणेऽपि तभिवृचोऽसौ शून्यतया तदर्थानवधारणात् । क्वचिव श्रद्धानेन ततः कुधर्मबुद्धयुपदेशाद्धर्मच्छलेन परवधादिमहापापानि कृत्वा भ्रान्तस्तेष्वेवानन्तपुद्गलपरावळनिति ॥”
तथा श्रावकदिनकृत्यवृत्तावप्युक्तम्-" इह हि सदैव लोकाकाशप्रतिष्ठितानाद्यपर्यवसितभवचक्राख्यपुरोदरविपरिवर्ती जन्तुरनादिवनस्पतिषु सूक्ष्मनिगोदापरपर्यायेष्वनन्तानन्तपुद्गलपरावर्तान्समकाहारोच्छवासनिःश्वासोऽन्तर्मुहूर्तान्तर्जन्ममरणादिवेदनाबातमनुभवति इत्यादि । तथा xxxx एवं च तथाविधभव्यजन्तुरप्यनन्तकालमव्यवहारराशौ स्थित्वा कर्मपरिणामनृपादेशात्तथाविधमवितव्यतानियोगेन व्यवहारराशिप्रवेशत उत्कर्षेण बादरनिगोदपृथिव्यप्तेजोवायुषु प्रत्येकं सप्ततिकोटिसागरोपमाणि तिष्ठन्ति । एषा च क्रिया सर्वत्र योज्या । एतेम्वेवं सूक्ष्मेष्वसंख्यलोकाकाशप्रदेशसमा उत्सर्पिण्यवसर्पिण्यः" इत्यादि ।
पुष्पमालाबृहद्वृत्तावप्युक्तम्- ननु कथमित्यं मनुष्यजन्मातिदलमं प्रतिपाद्यते ? उच्यते-समाकर्णय कारणम् ।
"अव्यवहारणिगोएसु ताव चिठंति जंतुणो सव्वे । पढमं अणंतपोग्गलपरिअट्टे थावरत्तेणं ॥१॥ तत्तो विणिग्गया वि हु ववहारवणस्सइंमि णिवसंति । कालमणंतपमाणं अणंतकायाइभावेणं ॥२॥
अव्यवहारनिगोदेषु तावत्तिष्ठन्ति जन्तवः सर्वे । प्रथममनन्तपुद्गलपरावर्तान् स्थावरत्वेन । १॥ ततो विनिर्गता अपि च व्यवहारवनस्पती निवसन्ति । कालमनन्तप्रमाणमनन्तकायादिभावेन ॥ २॥....