________________
पीससंति, समगं आहारैति, समर्ग परिणामयंति, समग उप्पज्जंति, समग विज्जति, थीणद्धीमहाणिदागाढनाणावरणाइकम्मपोग्गलोदएणं न वेअंति अप्पाणं, न . मुणंति परं, न सुणंति सई, न पेच्छंति सरूवं, न अग्घायंति गंधं, न बुझंति • रसं, न विदंति फासं, न सरंति कयाकयं, सइपुव्वं न चलंति, न फंदंति, ण . सीयमणुसरंति, नायवमुवगच्छंति । केवलं तिव्वविसयवेयणाभिभूअमज्जपाणमत्त
मुदियपुरिसव्व जहुत्तरकालंते वसिऊण कहमवि तहाभव्वत्त-भविअव्वयाणिओगेणं - किंपि तहाविहडिअकम्मपोग्गलसंजोगा तेहिंतो णिग्गंतुमुववज्जति केइ साहारण- वणस्सइसु अल्लय-सूरण-गज्जर- वज्जकंदाइरूवेण" इत्यादि ।
तथा तत्रैव प्रदेशान्तरे प्रोक्तम्--" ततो बलिनरेन्द्रेणोक्तम्-स्वामिरतहींदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः । ततः केवलिना
प्रोक्तम्-- महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते । केवलं यदि भवतां • कुतूहलं तर्हि समाकर्णयत, संक्षिप्य किंचित्कथ्यते---इतोऽनन्तकालात्परतो भवान्किल चारित्रसैन्यसहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरानिष्काश्य समानीतो व्यवहारनिगादेषु । ततो विज्ञातैतव्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम् । ततः पृथिव्यप्तेजोवायुबलस्पतिद्वित्रिचतुःपञ्चेन्द्रियतिर्यक्षु नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैमोहादिभिर्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु, एवं तावद् यावद्भमितोऽस्यतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्तान् । ततश्चार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्यापि कुलदोषेण, क्वचिज्जात्यन्धबधिरखञ्जत्वादिरूपेण, क्वापि कुष्टादिरागः, क्वचिदल्पायुष्कत्वेन एवमनन्तवाराः(रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा प्रान्तस्तेष्वेव पराङ्मुखो व्यावृत्त्यानन्तपुद्गलपरावर्तानेकेन्द्रियादिषु । ततोऽन्यदा श्रीनिलयनगरे निःश्वसन्ति, समकमाहारयन्ति, समकं परिणामयन्ति, समकमुत्पद्यन्ते, समकं विद्यन्ते, स्थानर्द्धिमहानिद्रा गाढ ज्ञानावरणादिकर्मपुद्गलोदयेन न वेदयन्ति आत्मानं, न जानन्ति परं, न शृण्वन्ति शब्दम् , न पश्यन्ति स्वरूपम् , नाजिघ्रन्ति गन्धम् , न बुध्यन्ते रसम्, न वेदयन्ति स्पर्शम् , न स्सरन्ति कृताकृतम्, मतिपूर्व न चलन्ति, न स्पन्दन्ते, न शीतमनुस्मरन्ति, नातपमुफ्गच्छन्ति । केवलं- तीव्रविषय वेदनाभिभूतमद्यपानमत्त-मुदितपुरुषवद् यथोत्तरकालान्ते उषित्वा कथमपि तथाभव्यत्व-भवितव्यतानियोगेन किमपि तथाविघटितकर्मपुद्गलसंयोगास्तेभ्यो निर्गत्योत्पद्यन्ते केचित्साधारणवनस्पतिषु आद्रक-सूरण-गर्जर-धजकन्दादिरूपेण ॥