________________
अगभिग्गहिआईणवि आसयभेएण हुंति बहुभेआ। लहुआ तिणि फलओ एएसुं दुन्नि गरुआई ॥ १० ॥
अभिग्गहि आईणवित्ति । अनाभिग्रहिकादीनामपि मिथ्यात्वानामाशयभेदेन परिणामविशेषेण बहवो भेदा भवन्ति । तथाहिअनाभिग्रहिकं किंचित्सर्वदर्शन विषयम् - यथा ' सर्वाणि दर्शनानि शोभनानि ' इति । किंचिद्देशविषयम् — यथा ' सर्व एव श्वेताम्बर - दिगम्बरादिपक्षाः शोभनाः ' इत्यादि । आभिनिवेशिकमपि मतिभेदाभिनिवेशादि मूल भेदादनेकविधम्- जमालि गोष्ठामाहिलादीनाम् । उक्तं च व्यवहारभाष्ये—
" इभेएण जमाली पुवि बुग्गाहिएण गोविंदो । संसग्गाए भिक्खू गोडामाहिल अहिणिवेसत्ति ।। " इति । -सांशयिकमपि सर्वदर्शनजैनदर्शन- तदेकदेशपदवाक्यादिसंशय• भेदेन बहुविधम् । अनाभोगोऽपि सर्वांश विषयाव्यक्तबोधस्वरूपो विव. क्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः । न खलु महामोहशैलू. षस्यैको नर्तनप्रकारोऽस्तीति । एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये श्रीण्यनाभिग्रहिक-सांशयिकाना भोगरूपाणि फलतः प्रज्ञापनीयतारूपं गुरुपारतन्त्र्यरूपं च फलमपेक्ष्य लघूनि, विपरीतावधारणरूपविपर्यासव्यावृत्तत्वेनैतेषां कुरानुबन्धफलकत्वाभावात् । द्वे आभिग्रहिकाभिनिलक्षणे मिथ्यात्वे गुरू, विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वात् । उक्तं चोपदेशपदे
"
“ ऐसो अ एत्थ गुरुओ णाणज्झवसामसंसया एवं । जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला || अनाभिग्रहिकादीनामपि आशयभेदेन भवन्ति बहुभेदाः । लघूनि त्रीणि फलतो एतेषु द्वे गुरू ॥ १० ॥
मतभेदेन जमालि: पूर्व व्युद्माहितेन गोविन्दः । संसर्गाद् भिक्षुर्गोष्ठा माहिल अभिनिवेशीति ॥ एष चात्र गुरुर्नानिध्यवसाय संशयानेयम् । यस्मादसत्प्रवृत्तिरितः सर्वत्रानर्थफला ॥