________________
दुष्प्रतीकारो ऽसत्प्रवृत्तिहेतुत्वेनैष विपर्यासोऽत्र गरीयान् दोष:, मबनध्यवसाय- संशयाववंभूतौ, अतत्त्वाभिनिवेशाभावेन तयोः सुप्रसीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः ॥
४२
नन्वत्र माषतुषादीनां चारित्रिणामेव संशयानध्यवसाययोरसत्प्रवृत्त्यननुबन्धित्वमुक्तम्, तच्च युक्तम्, तेषां मिथ्यात्वमोहनीयानन्तानुबन्धिनां प्रबलबोधविपर्यासकारिणां प्रबलक्रियाविपर्यासकारिणां च तृतीयकषायादीनामभावात् । मिथ्यादृशां संशयानध्यवसाययोश्च न तथात्वं युक्तम्, विपर्यासशक्तियुक्तत्वात्तेषाम् । अत शुभपरिणामोअप लेषां फलतोऽशुभ एवोक्तः श्रीहरिभद्रसूरिभिः । तथाहि
१
“ गेलमच्छ-भवविमोअम - विसन्नभोईण जारिसी एसो । मोहो होवि असुहो तफलओ एवमेसोचि ||
39
जलत्यादि । गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहार्थं जलमध्ये संचारितः, तत्प्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव । ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः। भवाद्-दुःखबहुलकुयोनिलक्षणाद्दुःखितजीवान काकशृगालपिपीलिकादीन् तथाविधकुत्सितवचनसंस्कारात्प्राणव्यपरोपणेन मोचयत्युत्तारयaft भवविमोचक :- पाखण्डविशेषः । विषेण मिश्रमन्नं तद् भुङ्कते तच्छीलश्च यः सं तथाविधः । ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी चेति द्वन्द्वः, तेषां यादृश एष परिणामः प्रत्यपायफल एव । कुतः १ मोहादज्ञानात्पर्यन्तदारुणतया शुभोऽपि स्वकल्पनया स्वरुचिमन्तरेण तेषां तथाप्रवृतेरयोगात्सुन्दरोऽपि सन्नशुभः संक्लिष्ट एव । कुतः ? इत्याह- तत्फलतः- भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद्अशुभपरिणामफलत्वाद् । अथ प्रकृते योजयन्नाह - एवं गलमत्स्यादिपरिणामवदेषोऽपि जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामः तत्फलत्वादशुभ एव, आज्ञापरिनामशून्यतयोभयत्रापि समानत्वेन तुल्यमेव किल फलम् " इति ॥१०॥
एतदाशङ्कायामाह
reमत्स्य-भवविमोचक विषान्नभोजिनां यादृश पत्रः । मोहात्शुभोsपि अशुभः तत्फलत एवमेष इति ॥