________________
४३
मज्झत्थत्तं जायइ जेसिं मिच्छत्तमंदया एवि । ण तहा असप्पवित्ती सदंधणारण तेसिंपि ॥११॥
मज्झत्थत्तंति । मध्यस्थत्वं रागद्वेषरहितत्वं जायते येषां मिथ्यास्वमन्दतयाऽपि किंपुनस्तत्क्षयोपशमाद् इत्यपिशब्दार्थः । तेषामपि मन्दमिथ्यात्ववतामपि किं पुनः सम्यग्दृष्ट्यादीनाम् । न तथा दृ-विपर्यासनियतप्रकारेणासत्प्रवृत्तिः स्यात् । केन ? सदन्धज्ञातेन समी-चीनान्धदृष्टान्तेन । यथाहि -सदन्धः सातवेद्योदयादना भोगेनाऽपि मार्ग एव गच्छति, तथा निर्बीजत्वेन निर्बीजभावाभिमुखत्वेन वा मोहाप-कर्षजनितमन्द्रागद्वेषभावोऽना भोगवान्मिथ्यादृष्टिरपि जिज्ञासादिगुणयोगान्मार्गमेवानुसरतीत्युक्तम् ।
उक्तं च ललितविस्तरायाम् – “अनाभोगतोऽपि मार्गगमनमेव सदन्ध-न्यायेन - इत्यध्यात्मचिन्तकाः " । इदमत्र हृदयम् - यः खलु मिथ्यादृशामपि केषांचित्स्वपक्षनिबद्धोद्धरानुबन्धानामपि प्रबलमोहत्वे सत्यप्रि करण्यान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपशमो भूयानपि दृश्यते, स पापानुबन्धिपुण्य बन्धहेतुत्वात्पर्यन्त दारुण एव । तत्फलसुखव्यामूढानां तेषां पुण्याभासकमुपरमे नरकादिपातावश्यंभाषादित्यसत्पवृत्तिहेतुरेवायम् । यश्च गुणवत्पुरुषप्रज्ञापनाऽर्हृत्वेन जिज्ञासादिगुणयोगान्मोहापकर्षप्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उपशमः स तु सत्प्रवृत्तिहेतुरेवाग्रहविनिवृत्तः सदर्थपक्षपातसारत्वादिति ॥११॥
यत एव मिथ्यात्वमन्दताकृतं माध्यस्थ्यं नासत्प्रवृत्त्याधायकम्., अत एव तदुपष्टम्भकमनाभिग्रहिकमिध्यात्वमपि शोभनभित्याह-
इत्तो अभिग्गहिय भणिअं हियकारि पुव्वसेवाए। अण्णायविसेसाणं पढमिल्लयधम्ममहिगिच्च ॥१२॥
मध्यस्थत्वं जायते येषां मिथ्यात्वमन्दतयाऽपि । न तथाऽसत्प्रवृत्तिः सदन्धज्ञातेन तेषामपि ॥। ११ ॥ इतोsनाभिग्रहिकं भणितं हितकारि पूर्व सेवायाम् । ज्ञातविशेषाणां प्रथमधर्ममधिकृत्य ।। १२ ।।