________________
इत्तोत्ति । इतः पूर्वोक्तकारणादज्ञातविशेषाणां देवगर्वादिविशेषपरिज्ञानाभाववतां प्राथमिकं धर्ममधिकृत्य-प्रथमारब्धस्थूलधर्ममाश्रित्य पूर्वसेवायां योगप्रासादप्रथमभूमिकोचिताचाररूपायां अनाभिग्रहिकं--- सर्वदेवगुर्वादिश्रद्धानलक्षणं मिथ्यात्वं हितकारि भणितम् , अनुषङ्गतः सद्विषयभक्तिहेतुत्वाद् , अविशेषश्रद्धानस्यापि दशाभेदेन गुणत्वात्। तदुक्तं योगबिन्दौअथ देवपूजाविधिमाह
" पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः।
देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् ॥" पुष्पैर्जातिशतपत्रकादिसंभवैः, बलिना पक्वान्नफलापहाररूपेण, वस्त्रैः घसनैः, स्तोत्रैश्च शोभनैः स्तवनैः, चशब्दाश्चैवशब्दश्च समुच्चयार्थाः। शोभनैरादरोपहितत्वेन सुन्दरैर्देवानामाराध्यमानानां पूजनं ज्ञेयम् । कीदृशम् ? इत्याह'शौचश्रद्धासमन्वितम् । शौचेन शरीरवस्त्रद्रव्यव्यवहारशुद्धिरूपेण, श्रद्धया च बहुमानेन, समन्वितं युक्तमिति ।
" अविशेषेण सर्वेषामधिमुक्तिवशेन वा ।
__ गृहिणां माननीया यत्सर्वे देवा महात्मनाम् ॥" . अविशेषेण-साधारणवृत्त्या सर्वेषां-पारगत-सुगत-हर-हरि-हिरण्यगर्भादीनाम् । पक्षान्तरमाह-अधिमुक्तिवशेन वा । अथवा यस्य यत्र देवतायामतिशयेन श्रद्धा तद्वशेन । कुतः ? इत्याह-गृहिणाम्-अद्यपि कुतोऽपि मतिमोहादनिर्णीतदेवताविशेषाणां माननीया-गौरवार्ता यद् यस्मात्सर्वे देवा उक्तरूपाः, महात्मनां परलोक'प्रधानतया प्रशस्तात्मनामिति ॥ एतदपि कथम् ? इत्याह
सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः।
जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ सर्वान् देवान्नमस्यन्ति-नमस्कुर्वते । व्यतिरेकमाह-नैकं कंचन दैवं समाश्रिताः प्रतिपना वर्तन्ते । येन ते जितेन्द्रिया निगृहीतहषीका जितक्रोधा अभिभूतकोपा दुर्गाणि-नरकपातादीनि 'व्यसनानि, अतितरन्ति-अतिक्रामन्ति ते सर्वदेवनमस्कारः।