SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४५ ननु नैते लोके व्यवद्रियमाणाः सर्वेऽपि देवा मुक्तिपथस्थितानामनुकूलाचरणा भवन्तीति कथमविशेषेण नमस्करणीयाः ? इत्याशङ्कयाह चारिसंजीवनीचारन्याय एष सतां मतः । नान्यथाऽष्टसिद्धिः स्याद् विशेषेणादिकर्मणाम् || प्ररूपायामध्ये संजीवनी - औषधिविशेषश्चारिसंजीवनी, तस्यावारश्ररणं स एव न्यायो दृष्टान्तश्चारिसंजीवनीचारन्यायः । एषो विशेषेण देवतानमस्करणीयताsपदेशः सतां शिष्टानां मतोऽभिप्रेतः । भावार्धस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ॥ १ ॥ तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी | तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ॥ २ ॥ तयोर्विवाहवशतो भिन्नस्थाननिवासिता । asar द्विजसुता जाता चिन्तापरायणा ॥ ३ ॥ कथमास्ते सखीत्येवं ततः प्राघूर्णिका गता । er विषादजलधौ निमग्ना सा तया ततः ॥ ४ ॥ प्रपच्छ किं त्वमत्यन्तविच्छायवदना सखि ! | तुयोचे पापसद्माऽहं पत्युर्दुभगतां गता ।। ५ ।। मा विषीद विषादोऽयं निर्विशेषो विषात् सखि ! | करोम्यनड्वाहमहं पतिं ते मूलिका बलात् ।। ६ ।। तस्याः सा मूलिकां दत्त्वा संनिवेशं निजं ययौ । rataमानसा तस्य प्रायच्छत्तामसौ ततः ॥ ७ ॥ अभूद् गौरुद्धुरस्कन्धो झगित्येव च सा हृद विद्राणाऽथ कथं सर्वकार्याणामक्षमो भवेत् ॥ ८ ॥ गोयुथान्तर्गतो नित्यं वहिधारयितुं सकः । . तयाssroar वटस्याधः सोऽन्यदा विश्रमं गतः ॥ ९ ॥ तच्छाखायां नभश्चारिमिथुनस्य कथंचन विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥ १० ॥ मात्रै गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । - पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् १ ॥ ११ ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy