SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ मूल्यन्तरोपयोगेन, क्वास्ते ! साऽस्य तरोरभः । श्रुत्वतत्सा पशोः पत्नी पश्चात्तापितमानसा ।। १२ ।। अभेदज्ञा ततश्चारिं सर्वा चासयेतुं तकम् । प्रवृत्ता सूलिकाऽऽभोगात्सद्योऽसौ पुरुषोऽभवत् ।। १३ ।। अजानाना यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतवारिं पुनर्नृत्वोपलब्धये ।। १४ ।। तथा धर्मगुरुः शिष्यं पशुप्रायविशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके विधौ ।। १५ ।। सामान्यदेवपूजादौ प्रवृत्ति कारयन्नपि । विशिष्टसाध्यसिद्ध्यर्थं न स्याद्दोषी मनागपि ॥ १६ ॥ इति । विपक्षे बाधामाह - 'न' नैव, 'अन्यथा' चारिसंजीवनीचारन्यायमन्तरेण: 'अत्र' देवपूजादौ प्रस्तुते ' इष्टसिद्धि: ' विशिष्टमार्गावताररूपा 'स्याद्' भवेद् अयं चोपदेशो यथा येषां दातव्यस्तदाह-' विशेषेण ' सम्यग्दृष्ट्यानुचितदेशनापरिहाररूपेण, ' आदिकर्मणाम् प्रथममेवारब्धस्थूलधर्माचाराणाम् । नात्यन्तमुग्धतया कंचन देवताविशेषमजानाना न विशेषप्रवृत्तेरद्यापि योग्याः, किन्तु सामान्यरूपाया एवेति ॥ " कदा विशेषप्रवृत्तिरनुमन्यते ? इत्याशङ्क्य आह गुणाधिक्यपरिज्ञानाद्विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां वृचाधिक्ये तथाऽऽत्मनः ॥ " , गुणाधिक्यपरिज्ञात् ' देवतान्तरेभ्यों गुणवृद्धेरवगमात् विशेषेऽप्यर्हदादो किं पुनः सामान्येन एतत्पूजनमिप्यते । कथम् ? इत्याह-' अद्वेषेण' अमत्सरेण ' तदन्येषाम् ' पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां ' वृत्ताधिक्यें ' आ-चाराधिक्ये सति । ' तथा ' इति विशेषणसमुच्चये । ' आत्मनः स्वस्य देवता- न्तराणि प्रतीत्येति ॥ 1. 9 अत्र ह्यादिधार्मिकस्य विशेषाज्ञानदशायां साधारणी देवभक्ति रेवोक्ता दानाघिकारे पात्रभक्तिरप्यस्य विशेषाज्ञाने साधारण्येव, तज्ज्ञाने च विशेषत उक्ता । तथाहि
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy