________________
४७
प्रसंस्था लिङ्गिनः पात्रमपचास्तु विशेषतः ।
स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ ग्रतस्था हिंसाऽनृतादिपापस्थानविरतिमन्तः, लिङ्गिनो व्रतसूचकतथाविधनेपथ्यचन्तः पात्रमविशेषेण वर्तते । अत्रापि विशेषमाह-अपचास्तु स्वयमेवापाचकाः, हुनरुपलक्षणात्परैरपाचयितारः पश्यमानाननुमन्तारो लिङ्गिन एव विशेषेण पात्रम् । तथा ' स्वसिद्धान्ताविरोधेन' स्वशास्त्रोक्तक्रियाऽनुल्लङ्गनेन 'वर्तन्ते' चेष्टन्त, 'सदैव हि ' सर्वकालमेवेति ॥
इत्थं चास्यानाभिग्रहिकमपि गुणकारि संपन्नम् । तथा चानाभिप्रहिकमप्याभिग्राहककल्पत्वात्तीव्रमेवेति सुनिश्चितमित्यादि संमतिप्रदर्शनपूर्वं यः प्राह तन्निरस्तम् , मुग्धानां स्वप्रतिपत्तौ तस्य गुणत्वात्। सुनिश्चितमित्यादिना विशेषज्ञस्यापि मायादिना माध्यस्थ्यप्रदर्शनस्यैव दोषत्वप्रतिपादनाद् । न चास्याविशेषप्रतिपत्तिः सम्यग्दृष्टेरिव दुप्टेंति शनीयम् , अवस्थाभेदेन दोषव्यवस्थानाद् । अन्यथा साधोरिव सम्यग्दृशः साक्षाद्देवपूजादिकमपि दुष्टं स्यादिति विभावनीयम् । एतेन पृथिव्याद्यारम्भप्रवृत्तापेक्षया निजनिजदेवाराधनप्रवृत्तानामध्यवसायः शोभन:, देवादिशुभगतिहेतुत्यादित्यसत्, तथाभृताध्यवसायस्य शोभनत्वे सम्यक्त्वोच्चारिणो " कंप्पइ अण्णउत्थिए वा०" इत्यादिरूपेण मिथ्यात्वप्रत्याख्यानानुपपत्तिप्रसक्तेः। नहि शुभाध्यवसायस्य तद्वतोर्वा प्रत्याख्यानं संभवति, ततः शुभाध्यवसायोऽपि तेषां पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिबन्धनत्वान्महानर्थहेतुरेव । नानापेक्षिकमपि शुभत्वं घटते, स्वस्त्रीसङ्गपरित्यागेन परस्त्रीसङ्गाप्रवृत्तस्यैव बहुपापपरित्यागमन्तरेणाल्पपापपरित्यागस्याशुभत्वाद् । अत एव पृथिव्याद्यारम्भप्रवृत्तस्यापि सम्यग्दृशोऽन्यतीर्थिकदेवाचाराधनपरित्यागोपपत्तिरिति परस्यैकान्ताभिनिवेशो निरस्तः । उत्कटमिथ्यात्ववन्तं पुरुषं प्रतीत्य निजदेवाचाराधनप्रवृत्तेमहानर्थहेतुत्वेऽप्यनाग्रहिकमादिधार्मिकं प्रति तथात्वस्याभावात् , तस्याविशेषप्रवृत्तेदुर्गतरणहेतुत्वस्य हरिभद्रसूरिभिरेवोक्तत्वात् । प्रत्याख्यानं च पूर्वभूमिकायां शुभाध्यवसायहेतोरप्युत्तरभूमिकायां स्वप्रतिपन्नविशेषधर्मप्रतिबन्धकरूपेण भवति, नैताबना पूर्वभूमिकायामपि तस्य विलोपी युक्तः । यथाहि-प्रतिपक्ष