________________
४८
कृत्स्नसंयमस्य जिनपूजायाः साक्षात्करणनिषेधात् , तस्य स्वप्रतिपन्नचारित्रविरोधिपुष्पादिग्रहणरूपेण तत्प्रत्याख्यानेऽप्यकृत्स्नसंयमवता श्राद्धानां न तदनौचित्यम् , तथा प्रतिपन्नसम्यग्दर्शनानां स्वप्रतिपन्नसम्यक्त्वप्रतिबन्धकविपर्यासहेतुत्वेनाविशेषप्रवृत्तः प्रत्याख्यानेऽपि नाविधार्मिकाणां तदनौचित्यमिति विभावनीयम् । ___ नन्वेवमादिधार्मिकस्य देवादिसाधारणभक्तेः पूर्वसेवायामुचितत्वे जिनपूजावत्साधूनां साक्षात्तदकरणव्यवस्थायामपि तद्वदेवानुमोद्यत्वापत्तिरिति चेद । न, सामान्यप्रवृत्तिकारणतदुपदेशादिना तदनुमोद्यताया इष्टत्वात् , केवलं सम्यक्त्वाद्यनुगतं कृत्यं स्वरूपेणाप्यनुमोद्यमितरच मार्गवीजत्वादिनेत्यस्ति विशेष इत्येतच्चाने सम्यग् विवेचयिष्यामः ॥ १२॥
अनाभिग्रहिकस्य शोभनत्वमेव गुणान्तराधायकत्वेन समर्थयतिइत्तो अ गुणहाणं पढमं खलु लद्धजोगदिट्ठीणं। मिच्छत्तेवि पसिद्धं परमत्थगवेसणपराणं ॥ १३॥ __इतश्चानाभिग्रहिकस्य हितकारित्वादेव च मिथ्यात्वेऽपि खल्विति . निश्चये लब्धयोगदृष्टीनां मित्रादिप्रथमदृष्टिचतुष्टयप्राप्तिमतां परमार्थ. गवेषणपराणां मोकप्रयोजनानां योगिनां प्रथमं गुणस्थानमन्व) प्रसिं• दम् । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं
परित्यज्याद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद् यदा संवेगतारतम्य. माप्नुवन्ति तदा मार्गाभिमुख्यात्तेषामिक्षुरस ककब-गुडकल्पा मित्रा तारा बला दीपा चेति चतस्रो योगदृष्टय उल्लसंन्ति, भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । तत्र मित्रायां दृष्टौ स्वल्पो बोधो यमो योगाङ्गदेवकार्यादावखेदो योगबीजोपादानं भवोद्वेगसिद्धान्तलेख. नादिकं बीजश्रुतौ परमश्रद्धा सत्संगमश्च भवति, चरमयथाप्रवृत्तकरण
सामर्थेन कर्ममलस्याल्पीकृतत्वात् । अत एवेदं चरमयथाप्रवृत्तकरणं . परमार्थतोऽपूर्वकरणमेवेति योगविदो विदन्ति ।..
इतश्च गुणस्थानं प्रथमं खलु लब्धयोगदृष्टीनाम् ।" मिथ्यावेजप प्रसिद्ध परमार्थगवेषणपराणाम् ॥ १३॥