________________
उक्तं च
64
अपूर्वासनभावेन व्यभिचारवियोगतः । ततोऽपूर्वमेवेदमिति योगविदो विदुः ॥
99
अस्यां चावस्थायां मिथ्यादृष्टावपि गुणस्थानपदस्य योमार्थघटमीपद्यते । उक्तं च
*" प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थाय मुख्यमन्वर्थयोगतः ॥ "
उक्तं
तारायां तु मनाक् स्पष्टं दर्शनम्, शुभा नियमाः, तस्य जिज्ञासा, योगकथास्वविच्छिन्ना प्रीतिः, भावयोगिषु यथाशक्त्युपचारः उचितक्रियाsहानिः स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति । तथाऽस्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनान्नानाविषवृत्तेः कार्त्स्न्येन ज्ञातुमशक्यत्वाच शिष्टाचरितमेव पुरस्कृत्य
"
प्रवर्तसे ।
" नास्माकं महती प्रज्ञा सुमहान शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ।
"
लायां दृष्टौ दृढं दर्शनम्, स्थिरसुखमासनम्, परमा तत्त्वशुश्रूषा, योग गोचरोऽक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति । दीमायां दृष्टौ प्राणायामः, प्रशान्तवाहिता लाभादयोगोत्थानविरहः, तरयश्रवणम्, प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानम्, तत्त्वश्रवणतो गुरुभक्तेरुद्रेकात्समापत्त्यादिभेदेन तीर्थकृद्दर्शनं च भवति । तथा मित्रादृष्टिस्तृणाग्निकणोपमा न ततोऽभीष्टकार्यक्षमा, सम्यक् प्रयोगकालं यावदनबस्थानात्, अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादिकार्यायोगादिति । तारादृष्टिर्गोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो बिशिष्टवीर्यस्थितिविकत्वाद् । अतोऽपि प्रयोगकाले स्मृतिपाडवासिद्धेः, तह