________________
भावे प्रयोगवैकल्यात् , ततस्तथा तत्कार्याभावादिति । यलादृष्टिः काष्ठानिकणतुल्या, ईषद्विशिष्टोक्तबोधयात् , तद्भावेनात्र मनास्थितिवीर्ये अतः पटुमाया स्मृतिरिह, प्रयोगसमये तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीपादृष्टिीपप्रभासदृशी, विशिष्टतरोफ़्तवार्यत्रयाद् , अतोऽत्रोदने स्थितिवीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । एवं भावतोऽप्यत्र द्रव्यप्रयोगो बन्दनादौ, तथा भक्तितो यत्र भेदप्रवृत्तेरिति प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः । इत्थं चोक्तस्य योगदृष्टिसचयग्रन्थार्थस्यानुसारेण मिथ्यादृष्टीनामपि मिप्रादिदृष्टियोगेन तथापास्थानकत्वसिद्धेः, तथाप्रवृत्तेरनाभिग्रहिकत्वमेव तेषां शोभनमित्यापनम् ॥ १३ ॥
ननु योगदृष्ट्याऽपि मिथ्यावृशां कथं गुणभाजनत्वम् ? जनस्वप्राप्तिं विना गुणलाभासंभवाद् दृष्टिविपर्यासस्य दोषस्य सत्वाद् । अत एवोक्तम्
" मिथ्यात्वं परमो रोगों मिथ्यात्वं परमं तमः ।
मिथ्यात्वं परमशत्रुर्मिथ्यात्वं पदमापदाम् ॥" इत्याशङ्कथाहगलिआसग्गहदोसा अविज्जसविज्जपयगया तेवि। सब्दण्णुभिचभावा जइत्तणं जंति भावेणं ॥ १४ ॥ __ गलिआसग्गहदोसत्ति । ते लब्धयोगदृष्टयो मिथ्यात्ववन्तोऽवेद्यसंवेद्यपदगता अपि तत्त्वश्रवणपर्यन्तगुणलाभेऽपि कर्मवज्रविभेदलभ्यानन्तधर्मात्मकवस्तुपरिच्छेदरूपसूक्ष्मबोधाभावेन वेद्यसंवेद्यपदाधस्तनपदस्थिता अपि भावेन जैनत्यं यान्ति वेद्यसंवेद्याः। वेद्यसंवेद्यपदयो'लक्षणमिदम्
गलितासद्ग्रहदोषा अवेद्यसंवेद्यपदगतास्तेऽपि । सवेनभृत्यभावाद् यतित्वं यान्ति भावेन ॥ १४ ॥