________________
"
" वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् ।
पदं तद्वद्यसंवेद्यमन्यदेतद्विपर्ययात् ॥” इति । अस्यार्थः-वेद्यं वेद्यनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पझानग्राह्यमित्यर्थः । संवेद्यते क्षयोपशमानुरूपं विज्ञायते यस्मिन्नाशयस्थानेऽपायादिनिबन्धनं नरकस्वर्गादिकारणं स्व्यादि तद् वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां भवति । अन्यदवेधसंवेद्यपदम् , एतद्विपर्ययात्-उक्तलक्षणव्यत्ययाद स्थूलबुद्धीनां भवति ।।
कथं ते भावजैनत्वं यान्ति ? इत्यत्र हेतुमाह-सर्वज्ञभृत्यभावात् सर्वत्र धर्मशास्त्रपुरस्कारेण तवक्तृतज्ञवकत्वान्युपगमात् । नन्वेमु. च्छिन्ना जैनाः, जैनव्यवस्थावायैरपि सधैर्नाममात्रेण सर्वज्ञाभ्युपगमात् तेषामपि जैनत्वप्रसङ्गादित्यतस्तेषां विशेषताह-गलितासग्रहदोषा इति । येषां ह्यसग्रहदोषात्स्वस्वाभ्युपगाथपुरस्कारस्तेषां रागद्वेषादिविशिल्पकल्पितसर्वज्ञाभ्युपगन्तृत्वेऽपि न भावजैनत्वम् । येषां तु माध्यस्थावदातबुद्धीनां विप्रतिपत्तिविषयप्रकारांशे नाग्रहस्तेषां मुख्यसर्वज्ञाभ्युपगन्तृत्वाद् भावजैनत्यं स्यादेव इति भावः। मुख्यो हि सर्वशस्तावदेक एव निरतिशयगुणवत्वेन तत्प्रतिपत्तित्वं यावतां तावता तद्भक्तत्वमविशिष्टमेव, सर्वविशेषाणां छल्मस्थेनामहादू दूरासमादिभेदस्य च भृत्यत्वजात्यभेदकत्वादिति। सदुक्तं योगदृष्टिसमुखये
" न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः। मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः ॥" सर्वज्ञो नाम यः कश्चित् पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥ प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । से सर्वेऽपि तमाफ्ना इति न्यायगतिः परा ॥ विशेषस्तु पुनस्तस्य कात्स्न्नासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्ना न कश्चन ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याज तुल्य एवासौं तेनांशेनैव धीमताम् ।।