SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०२ त्वमुक्तं तत्स्वाभाविकम्, न तु प्रतिषेवणाकृतमिति बोध्यम् । किञ्च तस्य प्रायवित्तं स्यात् तदा पुनर्वतारोपणादि स्याद्, आकुट्या पञ्चेन्द्रियघाते मूलादिमहाप्रायश्चित्ताभिधानाद् । उक्तं च - " तस्य हस्तशताद्बहिर्गमन इव निरतिचारताभिव्यञ्जकं सूक्ष्माश्रवविशोधकमालोचनाप्रायश्चित्तमेव । तथा च द्वितीयखण्डे बृहत्कल्पभाष्यवृत्तिग्रन्थः- “ १ आयरिए गच्छम्मि य कुलगणसंघ अ चेइअविणासे । आलोइअपडिक्कतो सुद्धो जं णिज्जरा विउला ॥ " षष्ठीसप्तम्योरर्थ प्रत्यभेदः । आचार्यस्य वा गच्छस्य वा कुलस्य वा गणस्य वा सङ्घस्य वा चैत्यस्य वा विनाशे उपस्थिते सति सहस्रयोधिप्रभृतिना स्ववीर्यमहापयता तथा पराक्रमणी ( णीयं ) यथा तेषामाचार्यादीनां विनाशो नोपजायते, स च तथा पराक्रममाणो यद्यपराधमापन्नस्तथाऽप्यालोचितप्रतिक्रान्तः शुद्धः - गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । कुतः ? इत्याह-यद्यस्मात्कारणाद्विपुला महती निर्जरा कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवगम्य भगवदाज्ञया प्रवर्त्तमानत्वादिति ।। " इत्थं च सर्वत्र वस्तुस्वरूपावबोधक एवापवादोपदेशो नतु विधिमुख इति यत्किञ्चिदेव, बहूनां छेदग्रन्थस्थापवादसूत्राणां विधिमुखेन स्पष्टमुपलम्भात् । तथा आचाराङ्गेऽपि " से से तत्थ पयलमाणे ar vasमाणे वा रुक्खाणि वा गुच्छाणि वा लयाओ वा वल्लीओ वा तणाणि वातणगहणाणि वा हरिआणि वा अवलंबिया उत्तरिज्जा, से तत्थ पाडिपहिआ उवागच्छंति ते पाणी जाएज्जा, तओ संजयामेव अवलंबिय २ उत्तरेज्जा, तओ संजयामेव गामाणुगामं दूइजिज्जा । " इत्यत्र गच्छगतस्य साधोर्वल्याद्यालम्बनस्य विधिमुखेनैवोपदेशात् । न च से भिक्खु वा २ गामाणुगामं दुइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागारागि वा तोरणाणि वा 46 १ आचार्ये गच्छे च कुलगणसंघे च चैत्यविनाशे । आलोचितप्रतिक्रान्तः शुद्धो यन्निर्जरा विपुला ॥ २ अथ स तत्र प्रचलन् प्रपतन् वृक्षान् गुच्छान् वा लता वा वल्लीर्वा तृणानि वा तृणग्रहणानि वा हरितानि वा अवलम्ब्य उत्तरेत्, अथ तत्र प्रातिपथिका उपागच्छन्ति तेषां पाणि याचेत, ततः संयत एव अवलम्ब्य २. उत्तरेत्, ततः संयत एवं ग्रामानुग्रामं गच्छेत ॥ ३० अथ भिक्षुर्वा भिक्षुकीर्वा ग्रामानु ग्रामं गच्छन् अन्तरा तस्य वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका वा सति पराक्रमे संवत एव पराक्रमेत, नो ऋजुक गच्छेत् । केवली ब्रूयाद् आदानमेतत् ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy