________________
२०१
८१
सर्वत्र विधेः प्रवर्त्तकत्वमभ्युपयन्ति शास्त्रविदः । विधेः प्रवर्तकत्वादेव च कल्प्य - तादिबोधकादर्थवादादपि विधिकल्पनमाद्रियते, इत्थं च ' ' पञ्चेन्दियववरोवणा वि कपिय'त्ति निशीथचूर्णावुक्तं न पुनः ' स हन्तव्य ' इतीति यदुक्तं तद् ध्वनिभेदेनार्थपरावर्त्तमात्रम् । यच्च ' सव्ये पाणा ' इत्यादिना विरोधोद्भावनं कृतं तद् 'न हन्तव्य' इत्यादिशब्दसादृश्यमात्रेणैव, किन्तु हिंसाविषयकोपदेशार्थमात्रेण स्यात्, तन्निराकरणं चैतत्सूत्रस्याविधिकृतहिंसाविषयत्वेनैव हरिभद्रसूरिभिः कृतमिति नात्र पर्यनुयोगावकाशः । किञ्च सामान्यतः सर्वजीवपरितापनानिषेधेऽपि क्वचिदपवादतस्तदुपदेशो विधिमुखेनापि दृश्यते, यथा भगवत्याम् - २ तं छंदेण अज्जो तुब्भे गोसाल मेखलिपुत्तं धम्मियाए पडिचोअणाए पडिचोएण्ह, धम्मिआए पडिसारणाए पडिसारेह, धम्मिएणं पडोआरेणं पटोआरेहः धम्मिएहिं अहिं हेऊहिं पसिणेहि
C
३ अवण्ण
पिसिणवागरणं करेह " । त्ति एतद्धि गोशालस्य परितापजनकं वचनं भगवतैत्र लाभं दृष्ट्वाऽऽज्ञप्तम्, न चोत्सर्गतः परपरितापजनकं वचनं साधूनां वक्तुं युज्यत इत्यवश्यमपवादविधिरुत्सर्गविधिवदङ्गीकर्त्तव्यः । इत्थं च वाई पटिहणेज्ज' त्ति दशाश्रुतस्कन्धचूर्णिवचनस्य यदन्यार्थपरिकल्पनं तदयुक्तमेव, मिथोविरुद्धं चेदं यदुतापवादविधिप्रतिषेधः, पञ्चेन्द्रियव्यापादनभयेन सति सामर्थ्यं प्रवचनाहितानिवारणे संसारवृद्धिर्दुलभबोधिता चेति । इत्थं हि मवचनाहितनिवारणे निमित्ते पञ्चेन्द्रियव्यापादनस्य बलवदनिष्टाननुबन्धित्वबोधार्थमपवादविधिरवश्यं कल्पनीयः, अन्यथा सामान्यनिषेधजनितभयानिवृत्तेरिति । यच्चाहितनिवारणे क्रियमाणे कदाचित्पञ्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिपच्त्याशयस्य शुद्धत्वाज्जिनाराधकत्वं सुलभबोधिकत्वं चोक्तं तदविचारितरमणीयम, यतनावतोऽपवादेऽपि प्रायश्चित्तानुपदेशात् । तदुक्तं बृहत्कल्पवृत्तौ तृतीयखण्डे - " तथा मूलगुणप्रतिसेव्यप्यालम्बनसहितः पूज्यः, पुलाकवत् ; स हि कुलादिकार्ये चक्रवर्त्तिस्कन्धावारमपि गृह्णीयाद् विनाशयेद्वा न च प्रायश्चित्तमाप्नुयाद् । ” इत्यादि । यत्तु तस्य " " हिट्ठट्ठाणट्ठिओ वि " - इत्यादिनाऽधस्तनस्थानस्थायि
१. पञ्चेन्द्रियव्यपरोपणाऽपि कल्प्यते इति । २. तत् छन्देन आर्य ! यूयं गोशालं मंखलिपुत्रं धार्मिकया प्रतिचोदनया प्रतिचोदयत, धार्मिकया प्रतिसारणया प्रतिसारयत, धार्मिकेण प्रत्यवतारेण प्रत्यवतारयत, धार्मिकैरथैर्हेतुभिः प्रश्नैश्च निष्पिष्टप्रश्नव्याकरणं कुरुतेति । ३. अवर्णवादिनं प्रतिहन्यात् । ४. अधस्तनस्थानस्थितोऽपि ।
૨૬