________________
२००
इति तत इदमुच्यते ॥ १ अप्पेण बहु इच्छइ पिसुद्धआलंबणो समणो।" इति। निश्चयतस्तु नैकान्ततो बाह्य वस्तु विधीयते निषिध्यते वा, केवलं शुभभावो वि* धीयतेऽभुभभावस्तु निषिध्यते, अत एव भावानुरोधेन बाह्ये वस्तुनि विधिनिषे*धकामचारः । तदुक्तं सदासगणिक्षमाश्रमणपूज्यपादैः-०२णय किंचि अणुगणायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होअव्वं ॥१॥” ति । तथा च ' यदेव निश्चयाङ्गव्यवहारेण नद्युत्तारादेरनुज्ञातत्वं तदेव " द्रव्यहिंसाया अपि' इत्यवशिष्टकल्पना जालमनुत्थानोपहतम् । इदं तु ध्येयम्
अनुज्ञाविषयतावच्छेदकं हिंसात्वं नधुत्तारत्वादिकं वा, किन्तु सामान्यविशेषविधिविधेयतावच्छेदकविधिशुद्धव्यापारत्वयतनाविशिष्टनद्युत्तारखादिकम्, फल तस्तु विधिशुद्धहिंसाया अप्यनुज्ञाविषयत्वं व्यवहाराबाधितमेव, अत एव विधिना क्रियमाणाया जिनपूजादिविषयहिंसाया अनुबन्धभावतो मोक्षप्राप्तिपर्यवसानसमुपदेशपदपञ्चवस्तुकादावुक्तम् । यत्तु 'अरिहंता भगवंतो' इत्यादि सम्मतिप्रदर्शनेन भगवतो विराधनाविषयकवाझयोगासम्भव उपपादितस्त इत्यन्तमसमासम्, सम्मतिवचनस्य कायव्यापारेणेव प्रवर्तकलनिवर्तकखाभावाभिधानतात्पर्याद्वाक्मयोगस्याप्यमवर्तकनिवर्तकत्वविधिनिषेधव्यापारवैयर्थ्याद् । यदपि
"सविशेषणे० " इत्यादिन्यायेन यतनाऽयतनाविषयत्वमेव सर्वत्र जिनोपदेशस्यो• पदर्शितं तदपि विशेष्यभागस्याकिश्चित्करत्वपदर्शनार्थं महावाक्यार्थपर्यवसानार्थमैदं पर्यार्थपर्यवसानार्थ वा ? नाद्यः, नद्युत्तारजन्यस्य भिक्षाचर्याविहारादिफलस्य यतनामात्रादसिद्धेविशेष्यभागस्याकिञ्चित्करत्वासम्भवाद् । न द्वितीयः, महावाक्यायस्य सर्वैरेव पदार्थैः पर्यवसानाद् । नापि तृतीयः, 'आज्ञा धर्म सार' इति
सार्वत्रिकैदंपर्यार्थस्य प्रकृतवाक्यार्थे योजनायामपि विशेष्यस्य त्यागायोगात् । । किञ्चैवं • जयं चरे' इत्यादौ यतनांश एवोपदेशो न तु चरणाग्रंश इत्येकत्र "" वाक्ये कथं पदपदार्थयोजना ? यदपि ज्ञानाद्यर्थमपवादप्रतिषेवणेऽप्यनादिसिद्ध कल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधक एव जिनोपदेशः, प्रवृत्तिस्त्वौचित्यज्ञानेन स्वत एवेत्युक्तं तदप्यगाधभ्रमसमुद्रमज्जनविजृम्भितम्, जिनोपदेशात् कल्प्यत्वादिबोधे स्वत एव प्रवृत्तिवचनस्याविचारितरमणीयत्वात्, कल्प्यताबोधकस्योपदेश "स्यैव प्रवृत्तिजनकेच्छाजनकज्ञानविषयेष्टसाधनतादिबोधकत्वेन प्रवर्तकत्वाद्, एतदेव हि
१ आत्मना बहु इच्छति विशुद्धालम्बनः श्रमण इति ॥ २ न किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रः । एषा तेषामाज्ञा कार्य सत्येन भवितव्यम् ॥ ३बतं चरेत् ।