________________
१९९
धुरादिरसास्वादः परं यत्र चिकीर्षितकार्यस्यानुकुलकारणान्यपि व्यवहारतः सावद्यानि भवन्ति तद्विषया जिनानुज्ञा क्रियाकालेऽप्यादेशमुखेन न स्याद्, एवं व्यवहारतो भाषायाः सावद्यत्वप्रसक्तेः; किं त्विष्टफलोपदर्शनेन कल्प्यत्वाभिव्यञ्जितोपदेशमुखेनैवावसातव्या । सा चानुज्ञा निश्रयतो निरवद्यैव, संसारप्रतनुकरणपूर्वक सानुबन्धिपुण्यप्रकृतिबन्धहेतुखात् । एतेन कुसुमादिभिर्जिनेन्द्रपूजामुपदिशता कुसुमादिजीवविराधनाप्युपदिष्टैव, पूजाविनाभावित्वेन ज्ञात्वैव पूजायामुपदिष्टखादिति वचनमपास्तम्, कुसुमादिजीव विराधनायाः पूजायाः कर्त्तएवाप्रत्यक्षत्वेन पूजाविषयक परिणामव्यवहाराहेतुत्वेन कल्पितकुसुमादीनामिव द्रव्यपूजासामग्रयनन्तर्भूतत्वात्, उपदेशमन्तरेणापि जायमानत्वात्, पूजां कुर्वता त्यक्तुमशक्यत्वाच्च, अन्यथा कुसुमादीनामिव तस्या अपि भूयस्त्वमेव विशिष्टपूजाङ्ग वाच्यम्, न च कुमुमादिभूयस्त्वे तद्भूयस्त्वमावश्यकम, कुसुमादीनां सचित्ताचित्ततया द्वैविध्यव्यवस्थानात् । तस्मात्तीर्थकृतामाज्ञोपदेशः कर्मक्षयनिमित्तं प्रत्युपेक्षणेर्यासमित्या - दिषु संयता यतनया प्रवर्त्तेरन् नान्यथा, संसारवृद्धिहेतुत्वादित्येवंविधिनिषेधमुखाभ्यामेवावसातव्यो न पुनस्त्वमित्थं कुरु इत्यादिसाक्षादा देशमुखेनापि । न च यतनया नद्युत्तारवत्तत्या द्रव्यपूजापि संयतानां भवत्विति शङ्कनीयम्, साधूनां त्रसस्थावरजीवरक्षार्थयतनाधिकाराद्, नद्युत्तारे '१ एगं पायं जले किच्चा' इत्यादि - विधिना निर्वाहा, द्रव्यस्तवे च त्रसजीवरक्षार्थयतनावतां श्राद्धानामेवाधिकारात्, सर्वारम्भपरिजिहीर्षापूर्वक पृथिव्यादियतनापरिणामे च तेषामपि चारित्र एवाधिकार इति तत्कारापणं च साधूनामुपदेशमुखेन युक्तम्, निश्चयतोऽनुज्ञाविषयत्वाद्, न त्वादेशमुखेन; पृथिवीदलादीनां तत्कारणानां व्यवहारतः सावद्यखात्, सोऽप्युपदेशो जिनपूजायतनाविषय एवेति सर्वत्र यतनायामेव भगवदाज्ञा, नतु क्वचिद् द्रव्यहिंसायामपीति ॥ तत्र ब्रूमः - अनुज्ञा तावद्भगवतो विधिवचनरूपा नद्युत्तराद्यविनाभाविन्यां जलजीवप्राणवियोगरूपायां जलजीवविराधनायां न कथञ्चिदेव, तस्या उदासीनत्वात् । तदनुकूलव्यापाररूपायां तु तस्यां नद्युतारादिव्यापाररूपायां साऽवर्जनीयैव, उभयस्वभावस्यानैकान्तिकस्य निमित्तकारणस्य बुद्धिभेदेन पृथक्कर्त्तुमशक्यत्वाद्, यत एव च यतनाविशिष्टस्य नद्युत्तारस्येष्टफलहेतुत्वं भणितम् । अत एव नैमित्तिक विधिरूपाया भगवदाज्ञाया बहुलाभाल्पव्ययद्रव्यहिंसायां व्यवहारतः पर्यवसानमुत्सर्गतः प्रतिषिद्धं हि केनचिन्निमित्तेनैव विधीयत १ एकं पादं जले कृत्वा ॥