________________
१९८
तश्च सजीवरक्षार्थमिति । न च केवलिना जीवघातादिकं साक्षादनुज्ञातमिति न ब्रूमः, किन्तु विहारादिकमनुजानता तदविनाभावेन जायमानमनुज्ञातमित्यस्यापि बचनस्यावकाशः, एवं सति गजसुकुमालश्मशानकायोत्सर्गमनुजानतः श्रीनेमिनाथस्य तदविनाभावितदीयशिरःप्रज्वालनस्याप्यनुज्ञापत्तेः । न च नद्युत्तारे जलजीविराधना यतनया कर्त्तव्येति जिनोपदेशो भविष्यतीत्यपि सम्भावनीयम्, यतनाविराधनयोः परस्परं विरोधाद्, यतना हि जीवरक्षाहेतुरयतना च जीवघातहेतुरिति । तस्माज्जीवविराधना नियमादयतनाजन्यैव, अयतना चान्ततो जीवघातवदनाभोगजन्याशक्यपरिहारेणैव, जीवरक्षा च यतनाजन्यैवेत्यनादिसिद्धो नियमो मन्तव्यः।अत एव छद्मस्थसंयतानामुपशान्तवीत रागपर्यन्तानां यतनया प्रवर्त्तमानानामपि या विराधना सा नियमादनाभोगवशेनायत नाजन्यैव, परमपमत्तसंयतानां नातिचा रहेतुरपि, आशयस्य शुद्धत्वात् । एतच्च सम्भावनयाप्यात्मकृतत्वेनाज्ञातायां छद्मस्थसाक्षात्कार गम्यजीवविराधनायामवसातव्यम्, ज्ञातायां च प्रायश्चित्तप्रतिपित्सोरेव, अन्यथा तु निःशुकतया संयमापगमः प्रतीत एव । न चाप्रमत्तानामयतना न भविष्यतीति शङ्कनीयम्, अनाभोगजन्यायतनायाश्छद्मस्थमात्रस्य सत्त्वेनाप्रमत्तत्ताया अनाबाधकत्वात्, तेन संयतानां सर्वत्राप्यनाभोगजन्याशक्य परिहारेण जायमाने जीवघातमृषाभाषणाद्यंशे जिनोपदेशो न भवत्येव, तथाभूताया अपि विराधनाया अयतनाजन्यत्वेन निषिद्धत्वाद्, अत एव संयतानां द्रव्यतोऽपि हिंसा कर्मवन्धकारणम्, असत्यपि कृतप्रत्याख्यानभङ्गेनालोचनाविषयः । यदागमः"१ से अ पाणाइवाए चविहे पण्णत्ते, तं० - दओ खित्तओ कालओ भावओ" इत्यादि प्रत्याख्यानं च सर्वविरतिसिद्वयर्थमेव, तस्या अपि द्रव्यत आश्रवरूपत्वात्, सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वात्, भावहिंसायाः कारणत्वाच्च; एतेन यत्र कापि धार्मिकानुष्ठाने सम्भावनयाप्यवद्यं भवति तदनुष्ठानविषयको जिनोपदेशो न भवति, तावन्मात्रस्याप्याश्रवस्योपदेशविषयत्वापत्त्या कृतसर्वसावद्यप्रत्याख्यानवतः प्रत्याख्यानभङ्गेन ‘केवली यथा वादी तथा कर्त्ता न भवेद्' इत्येवं प्ररूपणात्मकं पाशचन्द्रमतमप्युपेक्षितं द्रष्टव्यम्, जैनमवचने प्रागुक्तप्रकारेण तदंशे जिनोपदेशापत्तेरेवानङ्गीकारात् ; तस्मादयं भावः - यद्वस्तुजातं चिकीर्षितकार्यस्य प्रतिकूलमननुकूलं वा भवेत्तदविनाभावसम्बन्धेन जायमानमप्यनुकूलकारणवदुपदेशविषयो न भवति । यथा नद्युत्तराद्युपदेशे जीवघातो यथा वा क्षुद्वेदनाद्युपशमनार्थाहारविधौ तिक्तम
१ स प्राणातिपातश्चतुर्विधः प्रशप्तः, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च ॥