________________
१९७
4
दप्रतिषेवणेऽप्यनादिसिद्धकल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधको जिनोपदेशो भवति । तथा साध्या उपसर्गकर्त्तारमधिकृत्य " पंचिदियववरोवणा कप्पिअ "त्ति निशीथचूर्णावुक्तं न पुनः स हन्तव्य इति विधिमुखेन जिनोप्रदेशो भवति; २ सव्वे पाणा सव्वै भूआ सव्वे जीवा सव्वे सत्ता न हन्तव्वा " इत्याद्यागमेन विरोधप्रसङ्गात् । यच्च दशाश्रुतस्कन्धचूर्णी - 1 - " ३ अवण्णवाई पडिहणेज्ज' ति " मिभणितं तदाचार्य शिष्याणां परवादनिराकरणे सामर्थ्यं दर्शितम् । यथा - " ४ च्छदिट्ठी पsिहसु सम्मत्तं थिरं होइ " त्ति श्रीसूत्रकृदङ्गचूर्णो भणितम् । अत एव “ “साहूणं चेइआण य' इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येवं भणितम्, न पुनर्जिनप्रवचनाहितकर्त्ता ' हन्तव्य ' इति, जैनानां तथाभाषाया वक्तुमप्यनुचितत्वात् । यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादनं कादाचि कं भवत्यपि, तथापि स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनोव्यापारवानपि केवली न भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्याख्यातत्वाद् । न चापवादिकस्तथाव्यापारः सावद्यो न भविष्यतीति शङ्कनीयम, यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तर्हि सर्वोत्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति ? परं पञ्चेन्द्रियव्यापादनभयेन यदि सति सामर्थ्यं प्रवचनाहितं न निवारयति, तर्हि संसारवृद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम् । अहितनिवारणे च क्रियमाणे कदाचित्पञ्चेन्द्रियव्यापत्तौ प्रायश्चित्तप्रतिप्रच्याशयस्य शुद्धत्वाज्जिनाज्ञाऽऽराधकः सुलभबोधिश्वेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् । एवं जिनोपदेशेन वस्तुस्वरूपमवगम्य स्वत एव यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्पयाकल्प्यतावबोध एव चरितार्थत्वाज्जलजीवविराधनानुज्ञा केवलिनः कलङ्क एव । न च नद्युत्तारस्य कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम्, अचित्तजलनद्युत्तारस्य भावापघ्या तस्या नद्युत्तारे कारणत्वाभावात् । तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति । एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम् ' इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपानं चोपदिष्टं भविष्यतीति शङ्काऽपि परास्ता । यतः “ सविशेषणे० " इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम,
१. पञ्चेन्द्रिय व्यपरोपणा कल्प्या इति ॥ २. सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः ॥ ३. अवर्णवादिनं प्रतिहन्यात् । ४. मिथ्यादृष्टिषु प्रतिहतेषु सम्यक्त्वं स्थिरं भवति । ५ साधूनां चैत्यानां च ।