________________
१९६
त्वेन परिणतायां द्रव्यहिंसायामपीति भगवदाजैव प्रवृत्तिहेतुरिति सम्पन्नम् , आज्ञातः वचचिद् द्रव्यहिंसादौ प्रवर्त्तमानोऽप्यमवृत्त इति 'पञ्चाशकत्ति' वचनात् । यत्तूच्यते परेण नद्युत्तारादौ जलजीवविराधनाऽनुज्ञा किं साक्षादादेशरूपा, उत कल्पनाभिव्यश्रिता ? नाद्यः, 'स साधुर्जीवविराधनां करोतु ' इत्यादिरूपेण केवलिनो वाक्प्रयोगासम्भवात् । यदुक्तं- अरिहंता भगवंतो' इत्यादि। अत एव दीक्षां जिघृक्षताऽपि विज्ञप्तो भगवान् ‘जहासुई' इत्येवोक्तवान् न पुनस्त्वं गृहाणेत्यादि । यत्तु क्रियाकालेऽभ्यर्थितो भगवानादेशमुखेनाप्यनुज्ञां ददाति, तत्रानुज्ञायाः फलवत्त्वेन भाषाया निरवद्यत्वात् । नापि द्वितीयः, यतः कल्प्यता नद्युत्तारस्येष्टफलहेतुत्वेनैव स्यात् , इष्टफलं सहेतुत्वं च नद्युत्तारस्य यतनाविशिष्टस्यैव भणितम्, अयतनाविशिष्टस्य तु तस्य प्रतिषेध एवेत्ययतनाजन्यजीवविराधनयैव नद्युत्तारोऽप्यनिष्टफलहेतुत्वेनाकल्प्यो भणित इति जलजीवविराधनाविशिष्टो नद्युत्तारः केवलिनाऽनुज्ञात इति वक्तुमकल्प्यम् । न च यतनया नदीमुत्तरतः साधोरनाभोगजन्याशक्यपरिहारेण या जलजीवविराफ्नाः साऽनुज्ञातेत्युच्यत इति वाच्यम्, तस्यामनुज्ञाया अनपेक्षणानिष्फलत्वाद्, ज्ञातेऽपि प्रायश्चित्तानुपपत्तिप्रसक्तेश्व, जिनाज्ञया कृतत्वात् । एवमन्यत्रापि कल्प्यताऽकल्प्यता च फलद्वारा साक्षाद्वोक्ताऽवसातव्याः परं सर्वत्रापि वस्तुस्वरूपनिरूपणोपदेशेन न पुनः क्वाप्यादेशेनापि । अयं भाव:-जिनोपदेशो हि सम्यग्दृशां वस्तुस्वरूपपरिज्ञानार्थमेव भवति । तत्र वस्तुनः स्वरूपं हेयत्वज्ञेयत्वोपादेयत्वभेदेन त्रिधा । तत्र किञ्चिद्वस्तु जीवघाताद्याश्रवभूतं हेयम् , दुर्गतिहेतुत्वात् । किञ्चिच्च जीवरक्षादि संवररूपमुपादेयम् , सुगतिहेतुत्वात् । किश्चिच्च स्वर्गनरकादिकं ज्ञेयमेव, उभस्वभावविकलत्वात् । यत्तु ज्ञातं सर्वमपि वस्तु सुगतिहेतुस्तत्र " सविशेषणे०.” इत्यादिन्यायेन ज्ञानस्येव प्राधान्यम् , तच्चोपादेयान्तर्भूतमवसातव्यम् । एवं च किञ्चिदेकमेव वस्तु विशेषणाद्यपेक्षया त्रिप्रकार मपि भवति । यथा एकैव गमनक्रिया जीवघातादिहेतुत्वेनायतनाविशिष्टा साधनां हैयैव, हेयत्वेन चाकल्प्यैव; तथा सैव क्रिया जीवरक्षादिहेतुत्वेन यतनाविशिष्टा साधूनामुपादेया, उपादेयत्वेन च कल्प्या; उभयविशेषणरहिता तु ज्ञेयैव । एवं धामिकानुष्ठानमात्रे वक्तव्ये “ सविशेषणे०"-इत्यादिन्यायेन विधिनिषेधमुखेन यतनाऽयतनाविषयक एव जिनोपदेशः सम्पन्नः; तथा च जीवरक्षार्थ यतनोपादेयत्वेन कल्प्या, अयतना च जीवघातहेतुत्वेन हेयत्वेनाकल्प्येत्येवं विधिनिषेधमुखेन वस्तुस्वरूपावबोधको जिनोपदेशो मन्तव्यः । एवं छद्मस्थसंयतानां ज्ञानाद्यर्थमपवादप