SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ द्यावदेजनादिक्रिया तावदारम्भादिसम्भव इति केवलिनो द्रव्यहिसायां न सन्देह इति भावः ॥ ६४ ॥ एतदेव स्पष्टयति'किरिग्राउअंतकिरिया विरोहिणी जिणेण नणियान आरंनाइजुआन मंडियपुत्तेण पुढेणं ॥६६॥ ___ व्याख्या-'किरिआउ' त्ति । मण्डितपुत्रेण पृष्टेन जिनेन श्रीवर्द्धमानस्वामिना क्रिया एजनाद्या आरम्भादियुता-आरम्भादिनियता अन्तक्रियाविरोधिन्यो भणिताः। तथा च भगवतीसूत्रम्-" २जीवे णं भंते ! सया समियं एअइ वेयइ चलइ फंदइ घुट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ? हंता मण्डियपुत्ता ! जीवेणं सया समियं एअइ, जाव तं तं परिणमइ । जावं च णं भंते ! से जीवे सया समियं जाव तं तं भावं परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया भ. वइ ? णो इणहे समढे । से केणतुणं भंते ! एवं वुच्चइ-जावं च णं से जोवे सया समिधे जाव अंतकिरिया णो भवइ ? मंडियपुत्ता ! जावं च णं से जीवे सया समिअंजाव परिणमइ, तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वदृमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे, बहूर्ण पाणाणं भ्रजाणं जीवाणं सत्ताणं १ क्रिया अन्तक्रियाविरोधिन्यो जिनेन भणिताः आरम्भादियुता मण्डितपुत्रेण पृष्टेन ॥ ६५ ॥ २ जीवो भदन्त ! सदा समितमेजते व्येजते चलति, स्पन्दते घट्टते क्षुभ्यति उदीरयति तं तं भावं परिणमते ? हन्त (ओम् ) मण्डितपुत्र ! जीवः सदा समितमेजते, यावत् तं तं परिणमते । यावच्च भदन्त ! स जीवः सदा समितं यावच्च तं तं भावं परिणमते तावञ्च तस्य जीवस्य अन्ते अन्तक्रिया भवति ? नायमर्थः समर्थः । स केनार्थेन भदन्त! एवमुच्यते-यावच्च स जीवः सदा समितं यावदन्तक्रिया नो भवति । मण्डितपुत्र! यावच्च स जीवः सदा समितं यावत्परिणमते त्तावञ्च स जीव आरभते संरभते समारभते, आरम्भे वर्तते, संरम्भे वर्तते, समारम्भे वर्तते, आरभमाणः संरभमाणः समारभमाणः, आरम्भे वर्तमानः, संरम्भे वर्तमानः, समारम्भे वर्तमानः वहूनां प्राणानां भूतानां जीवानां सत्वानां दुःखापनायां शोकापनायां जीर्णतापनायां (खेदापनायां) तेपापनायां पिट्टनापनायां विद्रापनायां परितापनायां वर्तते स तेनार्थेन मण्डितपुत्र! एवमुच्यते यावच्च स जीवः सदा समितमेजते यावत्परिणमते तापञ्च तस्स जीवस्त अन्ते अन्तक्रिया न भवतीति ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy