SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१३ न च भणिता वस्त्रच्छेदाधिकारे; किं भगवतीवचनादारम्भस्स क्रियाविनाभावित्वमङ्गीकृत्यापि प्रतिबन्चैव पूर्वपक्षी (क्षिणा) दूषणं दत्तम् । तथाहि"आरंभमिट्टो जह आसवाय, गुत्ती य सेआय तहा तु साहू । णो फंद वारेहि व छिज्जमाणं, पइण्णहाणी व अतोऽण्णहा ते " ॥ ___ 'आरम्भमिट्टो' त्ति । मकारोऽलाक्षणिकः । हे नोदक ! यथाऽऽरम्भस्तवाश्रवाय कर्मोपादानायेष्टोऽभिमतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे कर्मानुपादानायाभिप्रेता, तथा च सति हे साधो !.मा स्पन्द, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनामिका चेष्टा क्रियते, यो वा तत्पतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः-स्ववचनविरोधलक्षणं दूषणमापद्यत इत्यर्थः ॥ अथ ब्रुवीथाः-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वानिर्दोष इति । अत्रोच्यते" २अदोस ते जइ एस सद्दो अण्णोवि कम्हा ण भवे अदोसो। अहिच्छया तुज्झ सदोस एक्को एवं सती कस्से भवे ण सिद्धी॥" : यद्येष त्वदीयः शब्दोऽदोषवान् , ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ; तस्यापि प्रमाणातिरिक्तपरिभोगविरूपादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वाभिप्रायेण तवैको वस्त्रछेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत्-सर्वस्यापि वा गाढवचनमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः। ततश्चास्माभिरप्येवं वक्तुं शक्यम्, योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः, शब्दत्वाद् , भवत्परिकल्पितशब्दवदित्यादि तत्तस्मात्कारणात्तत्र वस्त्रच्छेदाधिकारे सम्मतिवचनं प्रज्ञप्तेः “जीवे णं एस जीवे"इत्यादि नान्यार्थं किं त्वेजनादिक्रियाणामारम्भाविनाभावित्वप्रतिपादकमेव, अन्यथैतदर्थसमर्थनार्थमेतत्सूत्रमुपन्यस्तवन्तं तं पूर्वपक्षिणमन्यार्थप्रदर्शनेनैतदभिप्रायानभिज्ञमवक्ष्यत् कल्पभाष्यकृदिति । अस्मादेव भगवतीसूत्रादबाधितयथाश्रुतार्था १ आरम्भ इष्टो यथाऽऽसवाय गुप्तिश्च श्रेयसे तथा च साधो !। __ नो स्पन्द वारय वा छियमानं प्रतिज्ञाहानिर्वाऽतोऽन्यथा ते ॥ २ अदोषवान् ते यदि एष शब्दः, अन्योपि कस्मान्न भवेददोषः । सदोष एक एवं सति कस्य भवेन्न सिद्धिः ॥ अया
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy