SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१२ " विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिट्ठएजा । ___ वृत्तं सएउ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥" इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारम्भं सदोषं सूक्ष्मजीवविराधनया सावधं विज्ञाय तस्मात् कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्-न च्छेदनादि कुर्यात् । यत उक्तं भणितं व्याख्याप्रज्ञप्तौ-यावदयं देही जीव सैजः सकम्पश्चेष्टावानित्यर्थः, तावदसौ कर्मणो भवस्य वाऽन्तकरी न भवति । तथा च तदालापक:-"जाव णं एस जीवे सया समिअं एअइ वेअइ चलइ फंदइ घुट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं तस्स जीवस्स अंते अंतकिरिया ण भवइ" ति । तथा च हिंसान्वितयोगत्वेन वस्त्रच्छेदनव्यापारवतो हिंसकत्वमापादयन्तं पूर्वपक्षिणं प्रत्यप्रमत्तादिष्वापादकसत्त्वेप्यापाद्याभावात् तकमूलव्याप्त्यसिद्धेस्तस्य मूलशैथिल्यरूपदोषप्रदर्शनार्थमित्थमुक्तम, तथा चापादकसत्त्वादेवाप्रमत्तादिवत्केवलिनोऽपि द्रव्यहिंसासम्भवेऽपि न दोष इत्येतदेवाहहिंसगन्नावो हुजा हिंसलियजोगत्ति तकस्स। दाएउं श्य जणि पसिढिलमूलत्तणं दोसं ॥३॥ "हिंसगभावो"त्ति । हिंसकभावो भवेद्धिंसान्वितयोगतोऽधिकृतवस्त्रच्छेदनव्यापारवत इति शेषः, इत्येतस्य तर्कस्य प्रशिथिलमूलमापाद्यापादकव्याप्त्यसिद्धिरूपंदोषं दर्शयितुमिति भणितं-यदुताप्रमत्तादीनांसयोगिकेवलिपर्यन्तानां हिंसाव्याप्रियमाणकाययोगे सत्यपि भावत उपयुक्तत्वान्न हिंसकत्वमिति योगवत्त्वमात्रं च नापादकमिति तत्रापाद्यव्याप्त्यसिद्धिप्रदर्शनमकिश्चित्करमेवेति भावः ॥ ६३ ॥ नन्वप्रमत्तादीनामुपयुक्तानां योगवतामप्यहिंसकत्वप्रदर्शनेन हिंसान्वितयोगाभाव एवं प्रदर्शितो भवति; तथा च प्रकृते आपादकाप्रसिद्धिपदर्शनपर एवायं ग्रन्थोऽस्तु इत्यत आह'आपायगापसिहीण य जणिया वत्थन्जेय अहिगारे। ता तस्संमश्वयणं परमत्तीए ण अमटुं॥ ६४ ॥ 'आपायगापसिद्धि' त्ति । आपादकस्य हिंसान्वितयोगस्याप्रसिद्धिः, १ आपादकाप्रसिद्धिर्न च भणिता वस्त्रच्छेदाधिकारे । ततः तत्संमतिवचनं प्रज्ञप्ते न्यार्थम् ॥ ६४ ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy