SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २११ पत्तव्या । यः पुनरात्मना चेतःप्रणिधानेन शुद्ध उपयुक्तगमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन प्राणिव्यपरोपणेन सह योगः सम्बन्धो न भवति तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः । तदेवं भगवत्पणोते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चायभङ्गे हिंसायांव्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं 'भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति ॥ ६२॥ ___ नन्वत्र ‘अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्'-इति परोपन्यस्तानुमानदूषणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदशिंतम् । व्यभिचारश्च हेतुसत्त्वे साध्यासत्त्वमिति केवलिनोऽप्रमत्तादिसाधारप्येन योगवत्त्वम्, अहिंसकत्वं च सिद्धयति, नतु कथमपि द्रव्यहिंसेति चेत्, न । अत्र च 'आद्यभङ्गः' इत्यादिनिगमनवचनविचारणयाऽधिकृतवस्त्रच्छेदनव्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्त्वेऽपि भावत उपयुक्तत्वात् , अप्रमत्तादिवद् -इति स्वतन्त्रसाधनदृष्टान्त एव भगवति तत्सिद्धेः। किश्च पूर्वपक्षिणा वस्त्रछेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् 'भगवती' वचनेनैव प्रदर्शितम् । तथाहि“ 'सद्दो तहिं मुच्छइ च्छेअणा वा धावंति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकम्पो ततोवि वाता वितरन्ति लोग"॥ भो आचार्य ! तत्र वस्त्रे छिद्यमाने शब्द सम्मूर्च्छति, छेदनका वा सूक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि विनिर्गता लोकान्तं यावत प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति । २ " अहिच्छसी जंति ण ते उ दूरं संखोभिया ते अवरे वयंती । उडूं अहेया वि चउद्दिसं पि पूरिति लोगं तु खणेण सर्व ॥" अथाचार्य! त्वमिच्छसि-मन्यसे वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला न दूरं लोकान्तं यान्ति, तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे व्रजन्ति: एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्वमधश्चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति " ॥ यत एवमत:१ शब्दस्तत्र मूर्च्छति, छेदनका वा धावन्ति ते द्वयेऽपि तु यावल्लोकम् । वस्त्रस्य देहस्य च यो विकम्पस्ततोऽपि वाता वितरन्ति लोकम् ॥ २ अथेच्छसि यान्ति न ते तु दूरं संक्षोभिताः तैरपरे व्रजन्ति । ऊर्ध्वमधो वाऽपि चतसृषु दिक्ष्वपि पूरयन्ति लोकं तु क्षणेन सर्वम् ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy