SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१० भवति रागद्वेषरहितेन परीक्षकेण, यदप्रमत्तादीनां सयोगिकेवलिचरमाणां नो नैव हिंसा, व्याप्रियमाणयोगानामपीति शेषः । तथा व तद्ग्रन्थः“ अप्येव सिद्धंतमजाणमाणो तं हिंसग भासोस जोगवंतं । दवेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगत्ते"॥ - अपीत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं छेदनादिव्यापारवन्तं जीवं हिंसक त्वं भाषसे, तनिश्चीयते सम्यक् सिद्धान्तमजानत एवं प्रलापः। सिद्धान्ते योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते ? इत्याह-द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गा खलु हिंसकत्वे भवन्ति । तथाहि-१. द्रव्यतो नामैका हिंसा न भावतः, २. भावतो नामैका हिंसा न द्रव्यतः, ३. एका द्रव्यतोऽपि भावतोऽपि, ४. एका न द्रव्यतो नापि भावतः। अथैषामेव ययाक्रमं भावनां कुर्वन्नाह.... आहच्च हिंसा समिअस्स जा उ, सा दवओ होइ ण भावओ। भावेण हिंसा उ असंजयस्स, जे वा वि सत्ते ण सदा वहेइ ।। ३संपत्ति तस्सेव जदा भविज्जा, सा दबहिंसा खलु भावओ अ। ४. .. अज्झत्थसुद्धस्स जदा ण होज्जा वधेण जोगो दुहओ वि हिंसा ॥ .." समितस्येर्यासमितावुपयुक्तस्य याऽऽहत्य कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतो अहिंसैव मन्तव्या, “प्रमत्तयोगात प्राणव्यपरोपणं हिंसा.” इति वचनात् । भावेन भावतो या हिंसा न तु द्रव्यतः साऽसंयतस्य प्राणातिपातादेरनिवृत्तस्योपलक्षणत्वात् संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतों यानपि सत्त्वामसौ सदैव न हन्ति तानप्याश्रित्य मन्तव्या, १ ४॥ जे विन वाविज्जती णियमा तेसिपि हिंसओ सो उ” नि वचनाद् । यदा तु तस्यैव प्राणिव्यपरोपणसम्पाप्तिर्भवति, तदा सा द्रव्यतो भावतश्च हिंसा प्रति १ अप्येव सिद्धान्तमजानन् त्वं हिंसकं भाषसे योगवन्तम् । . .यण द्रव्येण भावेण च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे ॥ २ आहत्य हिंसा समितस्य या तु सा द्रव्यतो भवति न भावतस्तु । भावेन हिंसा त्वसंयतस्य यथापि सत्वान् न सदा हन्ति । ३ संप्राप्तिस्तस्यैव यदा भवेत् सा द्रव्यहिंसा खलु भावतश्च । - अध्यात्मशुद्धस्य यदा न भवेत् वधेन योगो द्विधापि हिंसा ॥ ४ येपि न ज्यापायन्ते नियमात्तेषामपि हिंसकः स त्विति ॥..
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy