________________
२०९
भिधानाद् विरुद्धधर्माभ्यां तदभावस्येव तद्वद्भेदस्यापि सम्भवेन तच्छून्यत्वन्यव - हारोपपत्तेः । हिंसास्वरूपमधिकृत्य तु द्रव्यमात्रहिंसायामप्यहिंसात्वं प्रवचने प्रतीतमिति कदाचिद् द्वितोयभङ्गस्वामित्वेऽपि भगवतः स्नातकस्य निर्ग्रन्थस्येव चतुर्थभङ्गस्वामित्वाऽविरोध एव, अहिंसापरिणत्यभेदाश्रयणेन तद्भङ्गस्यापि सम्भवदुक्तिकत्वात् । न चैवं द्वितीयभङ्गकालेऽपि चतुर्थभङ्गापत्तिर्द्र व्यहिंसाकालेऽप्यप्रमत्तयतीनां मनोवाक्कायशुद्धखानपायादिति वा वाच्यम्, चतुर्थभङ्गोपपादकमनोवाक्का
शुद्धताया गुप्तिरूपाया एव ग्रहणाद् अत एव नियतचतुर्थभङ्गस्वामित्वमयोगिकेवलिनोऽपि नानुपपन्नम्, शुद्धप्रवृत्तिव्यापारेणैव विरोधव्यापारेणापि मनोवाक्कायशुद्धताऽनपायाद्, अन्यथा तदविनाभाविध्यानानुपपत्तेः । उक्तं हि-ध्यानं करणानां सत्प्रवृत्ति-निरोधान्यतरनियतम् -
66 3 'सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । ज्ञाणं करणाणमयं ण उ चित्तणिरोहमेत्तागं ॥
इत्यादिग्रन्थेन विशेषावश्यके शोधकेन च व्यापारमुपसम्पद्योपरतेनापि शुद्धत्वव्यवहारो भवत्येव, यथा जलेन शुद्धं वस्त्रमिति । सर्वोत्कृष्टमनोवाक्कायशुद्धतयाsयोगिकेवली नियमेनैव चतुर्थभङ्गस्वामी युज्यत इति । न च शैलेश्यवस्थायामपि शारीरस्पर्शमागतानां मशकादीनां व्यापत्तौ चतुर्थभङ्गस्वामित्व नियमानुपपत्तिः, द्रव्य हिंसायास्तदनुकूलनोदनाख्ययोगव्यापारनियतत्वात्, तत्र तदभावात्तत्सम्बन्धमात्रस्यातिप्रसञ्जकत्वादिति दिक् ॥ ६१ ॥
यदि च ' न द्रव्यतो न भावतो मनोवाक्कायशुद्धस्य साधोः ' इति वचनानुरोधेन सयोगिकेवलिनश्चतुर्थभङ्गस्वामित्वमेवाभिमतं भवेत् तदाऽप्रमत्तादीनां सयोगिकेवलिपर्यन्तानां द्रव्यहिंसया दोषाभावतौल्यं प्रवचनाभिहितं न घटेतेत्याह'पयमं चिय वयणमिणं दट्ठवं होइ कप्पन्नासस्स । जं मत्ताईणां सजों गिचरमाण णो हिंसा ॥ ६३ ॥ व्याख्या – ' पयडं चियति । प्रकटमेवैतद्वचनं कल्पभाष्यस्य द्रष्टव्यं
१ सुदृढप्रयत्नव्यापारणं निरोध इव विद्यमानानाम् । ध्यान करणानामयं न तु चित्तनिरोधमात्रकम् ॥ २ प्रकटमेव वचनमिदं द्रष्टव्यं भवति कल्पभाष्यस्य । यदप्रमत्तादीनां सयोगिचरमाणां नो हिंसा ॥ ६२ ॥