________________
२०८
मात् । यदि च स्नातकचारित्रस्य द्रव्यहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्यादेव, निर्ग्रन्थ- स्नातकयोरेक संयमस्थानाभ्युपगमात् । " णिगंथसिणायाणं तुलं इकं च संजमट्ठाणं " इति पञ्चनिर्ग्रन्थीवचनादिति द्रष्टव्यम् || ६० ॥ हिंसाचतुर्भानुसारेणैव द्रव्यहिंसया भगवतो दोषाभावमाह - १णोदव्वा णोभावा जह तह हिंसा ण दव्वमित्तेणं । ते तीए दोसं जिणस्स को भासए सण्णी ॥ ६१ ॥
व्याख्या - ' णोदव्व ' त्ति । नोद्रव्याद् नोभावाद् यथा न हिंसा, तथा द्रव्यमात्रेणापि हिंसा तत्वतो न हिंसा । तेन तया द्रव्यहिंसया दोषं जिनस्य कः संज्ञी भाषेत - अपि तु न कोऽपीत्यर्थः । इदमुक्तं भवति - हिंसामधिकृत्य द्रव्यभावाभ्यां चतुभैंगी तावदियं श्रावकप्रतिक्रमणसूत्रवृत्तावुक्ताः - १ द्रव्यतो भावतश्च हिंसा' हन्मि ' इति परिणतस्य व्याधादेर्मृगवधे । २ द्रव्यतो न भावतः - ईर्यासमितस्य साधोः सवधे । यदागमः -
" २ वजेमित्ति परिणओ संपत्तीए विमुच्चई वेरा ।
अवतो वि ण मुच्चइ किलिट्ठभावा इवायस्य ॥ "त्ति । ३ भावतो न द्रव्यतः - ऽङ्गारमर्दकस्य कीटबुद्धयाऽङ्गारमर्दने, मन्द्रप्रकाशे रज्जुमहिबुद्धया घ्नतो वा । ४ न द्रव्यतो न भावतः - मनोवाक्कायशुद्धस्य साधोरिति ॥ अत्र परश्चतुर्थभङ्गस्वामिनं सयोगिकेवलिनमेवाह । यत्तु चूर्णिकारेण " चउत्यो सुण्णो 'त्ति भणितम्, तत्र स्वामिनमधिकृत्य, केवलिनस्तत्स्वामिनो विद्यमानत्वात्, तस्य सर्वोत्कृष्टचारित्रान्यथानुपपत्या मनोवाक्कायैः शुद्धत्वाद्, अन्यथा स्नातकः केवली न स्यात्, किन्तु हिंसास्वरूपमधिकृत्यैवोक्तम्, तच्चैवम् - यदि हिंसा तर्हि न द्रव्यतो न भावत इति वक्तुमप्यशक्यम्, द्रव्यभावयोरन्यतरत्वेनावश्यम्भावात्, तेन चतुर्थी भङ्गः शून्यो भणितः, विरोधाद् । न च शैलेश्यवस्थायां केवल स्वामी भविष्यतीति शङ्कनीयम्, तस्य सिद्धस्येव योगाभावेन मनोबाकायैः शुद्धत्वाभावाद्, नह्यविद्यमाने वस्त्रे ' वस्त्रेण शुद्ध ' इति व्यवहियत इत्याद्यसौ समर्थयामास । तच्चायुक्तम, हिंसाव्यवहाराभावमधिकृत्यैव चतुर्थभङ्गशून्यत्वा
१ नोद्रव्याद नोभावाद् वथा, तथा हिंसा न द्रव्यमात्रेण । तेन तथा दोषं जिनस्य को भाषते संज्ञी ? ॥ ६१ ॥
२ वर्जयामीति परिणतः संपत्त्या विमुच्यते वैरात् । अनन्नपि न मुच्यते क्लिष्टभावादिवात्मनः ॥