SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०७ द्भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायः, तस्मादपरिज्ञातसूत्रभावार्थों मिथ्यैव खिद्यसे त्वमिति ॥” ___किश्च यदि द्रव्यहिंसया कृतप्रत्याख्यानभङ्गः स्यात् तदा तवाप्युपशान्तमोहस्य यथाख्यातचारित्रं न स्यात् , अंशतो भङ्गावश्यंभावादिति । यच्च सर्वविरतिसिद्धयर्थं द्रव्यहिंसाया अपि प्रत्याख्यानमुपपादितम् , तदयुक्तम् , एवं योगानामपि प्रत्याख्यानापत्तेः 'अयोगिकेवलिष्वेव सर्वतः संवरो मतः' इति वचनादयोगिन्येव सर्वसंवरसिद्धः । यच्च द्रव्याश्रवस्य सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वमुक्तं तथैव, तेषामविरतिभावं प्रतीत्यैव कर्मबन्धाभिधानात् , तद्योगानां द्रव्य हिंसाऽहेतुत्वाद्, भावहिंसाकारणत्वं च योगानामिव द्रव्य हिंसाया अपि न बाधकमिति । 'यत्त्वेतेनेत्यादिना पाशचन्द्रमतमुपेक्ष्य तस्मादयं भावः' इत्यादिना किश्चित् सम्प्रदायानुसारि भणितं तदर्दजरतीयन्यायानुकारि, हिंसांशे जिनोपदेशाभावेन तन्मताश्रयणे ' पूजाधुपदेशाभावापत्तेः, तदविनाभाविहिंसांशे उपदेशाभावेन प्रकृतोपदेशसमर्थनसम्भवेऽपि तदङ्गकुसुमार्चनायंशे तस्य कुसुमादि जीववधानुकूलव्यापाररूपहिसावगाहित्वस्य निराकर्तुमशक्यत्वाद्, एवमनिष्टबीजरूपमनपोयेष्टफलहेतुत्वेन कल्प्यखाभिव्यक्तेरप्यनुपपत्तेः, कुसुमादिहिंसायाः सन्दिग्धत्वेन तथाविधपातकाहेतुत्वे मिथ्यादृशामपि तस्यास्तथात्वापत्तेः, तस्माद् द्रव्यस्तवस्थलीयहिंसायामनुबन्धशुद्धत्वेनैव भगवदाज्ञा सम्यक्त्वादिभावहेतुत्वादिति॥१९॥ तदेवमाभोगेऽपि द्रव्यहिंसाया दोषानावहत्वं यत्सिद्धं तदाह'तम्हा व्वपरिग्गह-व्ववहाणं समंमि आभोगे । णहु दोसो केवलिणो केवलनाणे व चरणे वा ॥ ६० ॥ 'तम्ह 'त्ति । तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे साक्षात्कारे केवलिनो नैव दोषः, केवलज्ञाने चारित्रे वा ज्ञानावरण-चारित्रमोहनीयक्षयजन्ययोः केवलज्ञान-चारित्रयोर्द्रव्याश्रवमात्रेणानपवादात् । यत्तु क्षीणमोहस्यापि स्नातकचारित्राभावात्संभावनारूढातिचाररूपस्यापि द्रव्याश्रवस्य यदि तत्पतिबन्धकत्वं तदा साक्षाजीवघातस्य द्रव्यरूपस्यापि तन्यायप्राप्तमेवेति केवलिनोऽपि द्रष्यहिंसा चारित्रदोष एवेति परेण प्रोच्यते तदसत् , स्नातकस्य निर्ग्रन्थभेदत्वाद् यथाख्यातस्यैव चारित्रभेदत्वात् तत्पतिबन्धकत्वस्य च द्रव्यहिंसायां त्वयाऽप्यनभ्युपग १ तस्माद् द्रव्यपरिग्रह-द्रव्यवधपोः समेऽप्याभोगे । नैव दोषः केवलिनः केवलज्ञाने च चरणे वा ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy