________________
. २०६ “ यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छद्मस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात्, 'ता' तस्माद् एवंचिय'त्ति एवमेव विराधनायाः शोधनीयत्वेन 'एतद्' क्षालनादिकं 'विहितानुष्ठानं ' विधेयक्रिया ' अत्र ' कर्मानयनप्रक्रमे ' भवति' स्याद् । इतिशङ्कः समाप्त्यर्थों गाथान्ते योज्यः। किंविधं भवति ? इत्याह-'कर्मानुबन्धच्छेदनं' कर्मसन्तानछेदकं 'अनघं '-अदोषम्, परोक्तदूषणाभावात् । किंभूतं सद् ? इत्याह-'आलोचनादियुतं ' आलोचनप्रतिक्रमणादिप्रायश्चित्तसमन्वितमिति गाथार्थ इति ॥"
वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छद्मस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् , छद्मस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐर्यापथिककर्मबन्धहेतुत्वेन, नायतनयाऽशुद्धा । अकषायश्च वीतरागः सरागश्च सञ्जवलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् । यत्तूक्तं द्रव्यतोऽपि हिंसायाः कृतप्रत्याख्यानभङ्गेनालोचनाविषयत्वमिति तज्जैनसिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम्, द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद्, द्रव्यहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे " 'से अपरिग्गहे चउबिहे पण्णत्ते, दवओ खित्तओ०" इत्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनिराकरणस्यलेऽभिहितम् । तथा च तद्ग्रन्थः_ " अपरिग्गहयामुत्तेत्ति जा य मुच्छापरिग्गहोऽभिमओ।
. सव्वदव्वेसु न सा कायव्वा मुत्तसब्भावो ॥"
या च " सव्वाओ परिग्गहाओ वेरमणम् ” इत्यादिनाऽपरिग्रहतासूत्रे पोक्तेति त्वया गीयते, तत्रापि मूच्छैव परिग्रहस्तीर्थकृतामभिमतो नान्यः । सा च मूर्छा यथा वस्त्रे तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्तव्येति सूत्रस
१ स च पारिग्रहश्चतुर्विधः प्राप्तः, द्रव्यतः क्षेत्रतः। .२ अपरिग्रहतासूत्र इति या च मूर्छा परिग्रहोऽभिमतः ।
सर्वद्रव्येषु न सा कर्तव्या सूत्रसभावः ॥ ३ सर्वात्प्राणातिपातादू विरमणम् ॥