________________
२०५
लहेतुत्वात् , तत्राशयशुद्ध प्रतिबन्धिकाया यतनातिरिक्ताया असिद्धः, तस्याचायतनया सह विरोधात्, स्थूलयतनायां स्थूलायतनायाः प्रतिबन्धकत्वेन सूक्ष्मा यतनाकल्पने प्रमाणाभावाद्, अयतनासत्त्वेऽप्रमत्तानामप्रमत्ततासिद्धेः । या च सूक्ष्मा विराधना द्वादशगुणस्थानपर्यन्तमालोचनाप्रायश्चित्तबीजमिष्यते सा न सूक्ष्मायतनारूपा, सूक्ष्माया अप्ययतनायाश्चारित्रदोषत्वेनोपशान्तक्षीणमोहयोर्यथाख्यात चारित्रिणोस्तदनुपपत्तेः; किन्त्वनाभोगलक्षणसूक्ष्मप्रमादजनितचेष्टाश्रवरूपा,अत एव द्वादशगुणस्थानपर्यन्तम् , तन्निमित्तालोचनाप्रायश्चित्तसम्भवः। तदुक्तं प्रवचनसारोद्धारवृत्तौ--" इयं चालोचना गमनागमनादिष्ववश्यकर्त्तव्येषु सम्यगुपयुक्तस्यादुटभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तयतेष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् , केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । आहयतीनामवश्यकर्त्तव्यानि गमनागमनादीनि तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्याप्रमत्तस्य किमालोचनया ? तामन्तरेणापि तस्य शुद्धत्वाद्, यथासूत्रं प्रवृत्तेः । सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्वयन्तीति तच्छुद्धिनिमित्तमालोचनेति । तथा व्यवहारदशमोद्देशकवृत्तावप्युक्तं-निर्ग्रन्थस्यालोचना-विवेकरूपे द्वे प्रायश्चित्ते, स्नातकस्यैको विवेक इति । तथाऽऽलोचना गुरोः पुरतः स्वापराधस्य प्रकटनम्, कचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये हस्तशतात् परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् । यतेरवश्यकृत्ये गमनागमनादौ निरतिचारस्यालोचनां विनाऽपि कथं न शुद्धिः, यथासूत्रं प्रवृत्तेः । सत्यम् ; परं याश्चेष्टानिमित्ताः सूक्ष्मा आश्रवक्रियास्तासां शुद्वयर्थमालोचनेति । तथा ' यतिजीतकल्पवृत्तावप्युक्तम्--" अत्राह शिष्यः-- निरतिचारो यतिः करणीयान् योगान् करोति, ततः किमालोचनया विशोध्यम् ? गुरुराह-सूक्ष्मा आश्रवक्रियाः सूक्ष्मप्रमादनिमित्तका अविज्ञातास्तासामालोचनमात्रेणशुद्धिरित्यादि । नथा पश्चाशकसूत्रवृत्त्योरप्युक्तम्
"ता एवं चिय एवं विहियाणुट्ठाणमेत्य हवइत्ति ।
कम्माणुबंधछेअणमणहं आलोअणाइजुरं ॥"
१ तत एवमेवैतद् विहितानुष्ठानमत्र भवतीति । कर्मानुबन्धच्छेदनमनघमालोचनादियुतम् ॥