________________
२०४
C
ates and strai सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गि अंति । ” एतद्वृत्तिर्यथा - स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित्परो गृहस्थः ' अभिहट्टु अंतो ' इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं उद्भिज्जं वा लवणाकराद्युत्पन्नं ‘परिभाइ' त्तत्ति दातव्यं विभज्य दातव्यद्रव्यात् कञ्चिदेशं गृहीत्वेत्यर्थः । ततो निःसृत्य दद्यात् तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्चाहच्चे 'ति सहसा प्रतिगृहीतं भवेत् । तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्नलवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेद्, एतच्च ब्रूयाद् ' अमुक' इति वा, भगीनीति वा ! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् यथा पूर्वं मयाऽजानता दत्तम्, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत् परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिभ्यो दद्यात्, तदभावे बहुप र्यापन्नविधिं प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्र्यमिति । "
"
न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भव - तीति शङ्कनीयम, अधिकृत पुरुषविशेषेऽधिक निवृत्तितात्पर्यावगाहित्वेनास्य निरवद्यत्वाद्, अन्यथा देशविरत्युपदेशोऽपि न स्यात्, तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्थावरहिंसाप्रतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः । यत्तु 'जलं वस्त्रगलितमेव पेयम्' इत्यत्र " सविशेषणे० " इत्यादिन्यायाज्जलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद्, यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनिर्युक्तौ - " " उस्सिंचण - गालण--धोअण्णे य उवगरण- कोस भंडे अ । बायरआउक्काए एयं तु समासओ सत्थं " || ति ॥ अत्र गालनं 'घन - मसृणवस्त्रार्द्धान्तेन ' इति वृत्तौ सम्पूर्य व्याख्यातम् । तच्च त्रिविधं त्रिविधेन निषिद्धमिति विधिमुखेन तदुपदेशे निषिद्धस्यापवादतस्तयोपदेशाविरोधाद्, निषिद्धमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति । यत्तूक्तं द्रव्य हिंसाया अप्यनाभोगवशादयतनाजन्यत्वेन निषिद्धत्वमेवेति । तत्रायतनाजन्य हिंसायाः कटुकफ
१
१. उत्सेचनगालन- धावनं चोपकरण-कोशभाण्डं च । बादराकाये एतत्तु समासतः शस्त्रम् ॥