________________
१८६
सा होइ णिजरफला अज्झविसोहिजुत्तस्स ॥१॥” त्ति । अत्र हि 'मुत्तविहिसमग्गस्स' त्ति कृतसर्वसावधप्रत्याख्यानस्य वर्जनाभिप्रायवतः साधोरित्यर्थः । तत्र जायमानाया निर्जराया जीवविराधना प्रतिबन्धिका न भवति, जीवघातपरिणामजन्यत्वाभावेन वर्जनाभिप्रायोपाध्यपेक्षया दुर्बलत्वाद्, एतेन जीवविराधनापि यदि निर्जरां प्रति कारणं भवेत् , तर्हि तथाभूतापि विराधना तपःसंयमादिवद्भूयस्येव श्रेयस्करी,भूयो निर्जराहेतुत्वादिति पराशङ्कापि परास्ता, स्वरूपतः कारणभूतस्य तथा वक्तुं शक्यत्वात् । न चैवं जीवविराधना तथा, तस्याः संयमपरिणामापगमद्वारा स्वरूपतो निर्जराया प्रतिबन्धकत्वात् । प्रतिबन्धकं च यथा यथाऽल्पसमर्थं च तथातथा श्रेयः,तेन तस्याःकारणत्वं, प्रतिबन्धकाभावत्वेन प्रतिबन्धकामावस्य भूयस्त्वं प्रतिबन्धकानामल्पत्वेनैव स्याद्, अन्यथा तदभावस्य कारणता न स्यादित्यादिकूटकल्पनार सिकेणोच्यते । तदसत् , निश्चयतः सर्वत्र संयमप्रत्ययनिर्जरायामध्यात्मशुद्धिरूपस्य भावस्यैव हेतुत्वात् , तदङ्गभूतव्यवहारेण चापवादपदादिप्रत्ययाया हिंसाया अपि निमित्तत्वे वाधकाभावात् ; “जे' आसवा ते परिस्सवा"-इत्यादि वचनमा माण्यात् । निमित्तकारणोत्क (प)ौ च न कार्योत्कर्षांपकर्षप्रयोजकाविति न निर्जरोत्कर्षार्थं तादृशहिंसोत्कर्षांश्रयणापत्तिः, यच्च 'जाजयमाणस्से त्यादि वचनपुरस्कारेण वर्जनाभिप्रायेणानाभोगजन्याशक्यपरिहारहिंसायाः प्रतिबन्धकाभावत्वेन कारणत्वाभिधानं तत्तु तद्वृत्यर्थानाभोगविजृम्भितम्, तत्रापवादप्रत्ययाया एव हिंसाया व्याख्यानात् । तथाहि-यतमानस्य-सूत्रोक्तविधिपरिपालनपूर्णस्याध्यात्मविशोधियुक्तस्य रागद्वेषाभ्यां रहितस्येति भावः, या भवेद्विराधनाऽपवादपदप्रत्यया सा भवति निर्जराफला । इदमुक्तं भवति-कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽपवादपदमासेवमानस्य विराधना सा सिद्धिफला भवतीति पिण्डनियुक्तिवृत्तौ । न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा, किन्तु ज्ञानपूर्वकत्वेन सूत्रनयमतेन विलक्षणैव सती व्यवहारनयमतेन च विलक्षणाकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुर्घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे, अत एवेयमनुबन्धतो हिंसारूपा सत्यैदंपर्यार्थापेक्षया 'न हिंस्यात् सर्वाणि भूतानि' इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद् । विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् । तदुक्तमुपदेशपदमुत्रवृत्त्योः-अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्याङ्गानि दर्शयन्नाह
१ ये आस्रवास्ते परिस्रवाः