________________
१८५
" जाणं करेr इको हिंसमजाणमपरो अविरओ अ ।
तत्व बंधविसेस महंतरं देसिओ समए ॥ १ ॥
द्वारितौ तत्रैस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपरः पुनरजानन्, तत्रापि तयोरपि बन्धविशेषः 'महंतरं 'ति महताऽन्तरेण देशितः समयेसिद्धान्ते । तथाहि - यो जानन् हिंसां करोति, (स) तीव्रानुभावबहुतरं पापकर्मोंपचिनोति; इतरस्तु मन्दतर विपाकमल्पतरं तदेवोपादत्ते ।
" विरतो पुण जो जाणं कुणति अजाणं च अप्पमत्तो य । तत्थवि अज्झत्यसमा संजायति णिज्जरा ण चओ ॥ १ ॥
""
यः पुनर्वितः प्राणातिपातादिनिवृत्तः स जानानोऽपि ' सदोषमिदम्' इत्य-' agrast गीतार्थतया द्रव्यक्षेत्राबागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यद्वा न जानाति परमप्रमतो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् प्रायुपयातं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सआयते । यस् यशस्वीत्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । ' न चओ 'त्ति न पुनश्वयः - कर्मबन्धः सूक्ष्मो भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथं प्राण्युपघातनं भाव ? अदुष्टत्वादिति । यत्तु जीवघातवर्जनाभिप्रायवतां यतनया प्रवर्त्तमानानां छद्मस्थसंयतानामनाभोगजन्याशक्य परिहारेण जायमानं जीवघातानृतभाषणादिकं (स) संयमपरिणामानपायहेतुः, संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् । अयं भावः - यद्धर्मविशिष्टं यद्वस्तु निजस्त्ररूपं जहाति स धर्मः तत्रोपाधिरिति नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि । यदागमः -
"" ३जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स ।
१ जानन् करोत्येको हिंसामजाननपरोऽविरतश्च । तत्रापि बन्धविशेषो महान्तरो देशितः समये ॥ २ विरतः पुनर्यो जानन् करोत्यजानश्चाप्रमत्तश्च । तत्रापि अध्यात्मसमा संजायते निर्जरा न चयः ॥ ३ या यतमानस्य भवेद्विराधना सूत्रविधिसमग्रस्य ! सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य !!