________________
कर्मबन्धस्य कारणम्, अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञातभावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि तदेवं वध्यवधकयो विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति । तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति ॥” तथाहि-यजीवसाम्यात् कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो नहि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन. व्यापादयितुमशक्यत्वाद्, अपि विन्द्रियादिव्यापत्त्या । तथा चोक्तम्
पश्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा॥” इत्यादि। अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः। तथा हि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति, तथापि न वैरानुषङ्गो भवेद्, दोषाभावात् । अपरस्य तु सर्पबुद्धया रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति । उक्तं चागमे-''ऊचालिअंमि पाए' इत्यादि । तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव । तदेवं वध्यवधकभावापेक्षया स्यात् सदृशत्वम्, स्यादसदृशत्वमिति, अन्यथाऽनाचार इति । एतेन लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरिति परस्य यत्र तत्र प्रलपनमपास्तम् । अपि चैवमापवादिकोऽपि वधो महानाय सम्पद्यते, ज्ञानादिहानिनिवारणमात्राभिप्रायस्य संयमपरिणतेऽ(रन)पायहेतुत्वेऽपि तत्कृतवधे लौकिकपातकत्वव्यवहारविषयत्वेनाशुद्धवानिवृत्तेः। पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव । तदुक्तं वृहत्कल्पभाष्ये
“२गीयत्थो जयणाए कडजोगी कारणमि णिहोसो।
एगेसिं गोयकडो अरत्तदुट्टो य जयणाए ॥ १॥ त्ति । तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थिसम् । अत एव विरताविरतयोर्जानतोरजानतोश्च विराधनायां यतनानिमितकाऽध्यात्मशुद्धि-तदशुद्धिविशेषात् कर्मनिर्जराबन्धविशेषो व्यवस्थितः । तदुक्तं वृहत्कल्पभाष्यवृत्त्योद्वितीयखण्डे-अथ ज्ञाताज्ञातद्वारमाह- .
१ उच्चालिते पादे । २ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः । एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया ॥ ..