________________
कुर्वतामशक्यपरिहारा हसा सूक्ष्मस्थूलजीवविषयकभेदेऽप्यशक्यपरिहारत्वेन समानैव, विषयभेदात् तद्भेदं तु व्यवहारेण न वारयामः ।अत एवाब्रह्मसेवायामपि देशविरतस्य कृतसङ्कल्पमूलस्थूलजीवहिंसापत्याख्यानाभङ्गान व्याधादिवद्दुष्टत्वम् । न चैवं देशविरतस्येव साधोरप्याभोगेन पृथिव्यादिवधे न दुष्टत्वमिति साधोः प्रत्याख्यानभङ्गदोषसमर्थनार्थ पृथिव्यादिजीवाभोगोऽप्यवश्यमभ्युपेयः। यदि चस्थूलत्रसविषयक एवाभोगोऽभ्युपगम्येत, तदा तद्विषयैव हिंसैकान्ततो दुष्टा स्यात् , न चैवं जैनप्रक्रियाविदो वदन्ति, तैः क्षुद्रमहत्सत्ववधसादृश्यवसदृश्ययोरनेकान्तस्यैवाभ्युपगमात् । तदुक्तं सूत्रकृताङ्ग
'जे केइ खुद्दगा पाणा अदुवा संति महालया। सरिसं तेहि वेरंति असरिसं ति य णो वए ॥ एतेहिं दोहिं ठाणेहिं ववहारो ण विजई।
एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ॥" त्ति एतद्वत्तिर्यथा-"ये केचन क्षुद्रकाः सत्त्वाः प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पश्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यश्वादयस्तेषां च व्यापादने सदृशं वैरमिति वज्र-कर्म विरोधलक्षणं वा वैरं सदृशं समानम्, तुल्यप्रदेशत्वात सर्वजन्तूनामित्येवमेकान्तेन नो वदेत् । तथा विसदृशमसदृशम्, तद्व्यापत्तौ वैरं कर्मवन्धो विरोधो वा, इन्द्रियविज्ञानकायानां विसदृशत्वात् , सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् । यदि हि वध्यापेक्षयैव कर्मबन्धः स्यात् ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते; न च तशादेव बन्धः, अपि त्वध्यवसायवशादपि; ततश्च तीव्राध्यवसायिनोऽल्पकायसश्वव्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति । एतदेव सूत्रेणैव दर्शयितुमाह-' एतेही 'त्यादि । आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पमहाकायव्यापादनकर्मबन्धसदृशत्व (विसदृशत्व)योर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते। तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव १ येऽपि क्षुद्रकाः प्राणा अथवा सन्ति महालयाः । सदृशं तैर्वैरमिति असदृशमिति च नो वदेत् ॥ एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते । एताभ्यां द्वाभ्यां स्थानाभ्यामनाचारं तु जानीयात् ॥