________________
१८२
धमिति संयमो दुराराधो भणितः । एवं सम्यक् प्रयत्नपरायणानामपि कदाचित् कुन्ध्वादिस्थूलत्रसजीवविराधना स्यात् । सा च प्रायोऽसम्भविसम्भवेनावश्यभाविनीति वक्तव्यम् । शक्यपरिहारजोवविषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात्साऽप्यवश्यंभाविनी, विराधना द्वेषा - अनाभोगमूला अनाभोगपूfast, अनाभोगमूला आभोगपूर्विका चेति । तत्राद्य (द्या) जीवघाते जाते सत्येव तत्परिज्ञानाद । द्वितीया तु निम्नमदेशादौ पिपीलिकादिकमवोत्पाटिते पादे दृष्ट्वाऽपि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानत्वात् परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तज्जन्यकर्मबन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्कर्त्तुहिंसाव्यपदेशहेतुत्वात्, तथाव्यपदेशः स्थूल सजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् । न चैवं केवलिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याभ्छद्मस्थ साक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात् । अत एवाब्रह्म सेवायामनेकशतसहस्रपञ्चेन्द्रियजीवविराधकोsपि देशविरतिश्रावको ' जीवविराधकः' इति व्यपदेशविषयो न भवति, (भवति) चैकस्या अपि पिपीलिकाया विराधनेनाभोगेनापि; आभोगे च स्वज्ञातिज्ञातेऽपांतेयोऽपि स्यात् तेन निजसाक्षात्कारविषयीभूताविषयीभूतयोजीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्यावादिभ्योऽपि जीवघातक - त्वेनाधिको वक्तव्यः स्यात् - इत्यादि परस्य कल्पनाजालमपास्तम्, संयतानां नद्युतारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवादुष्टत्वात् । यच्च तया न संयमस्य दुराराधत्वम्, तस्याः कादाचित्कत्वादालम्बनशुद्धत्वाच्च । यथा च कुन्धूत्पत्तिमात्रेण सार्वदिकयतनाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वम्, तथा तथाविधक्षेत्रकालादिवशात् सूक्ष्मवीजहरितादिप्रादुर्भावेऽपि सार्वदिकतद्यतनाहेत्वाभोगदौर्लभ्यात् संयमस्य दुराराधत्वमेवेति तु 'दशवैकालिका' ग्रध्ययनवतामपि सूक्ष्माष्टकविदां परिणतलोकोत्तरदयास्वरूपाणां प्रतीतमेव । स्थावरसूक्ष्मत्रस विषयकोsनाभोगः केवलज्ञानं विना दुरत्यय इति तु सूक्ष्माष्टकयतनाविधानान्यथानुपपश्यैव वाधितं परिणामशुद्धयर्थं तद् नतु तदाभोगार्थम् इत्येवं तदाभोगापलापे च स्थूलत्रसाभोगाभ्युपगमोऽप्युच्छिद्येत, तत्रापीत्थं वक्तुं शक्यत्वात्, चेष्टा लिङ्गाभिव्यक्तेः स्थूलत्रसाभोगोऽभिव्यक्त एवेति चेत् पृथिव्यादिजीवाभोगोऽपि जिनवचना भिहित लिङ्गादाज्ञाप्रामाण्याद्वा किं नाभिव्यक्तः ? व्यक्तीयत्तया नाभोगस्तु मनाक्स्पन्दस्कुन्थु तदनुकारिरजखुटिपुत्रेऽपि वक्तुं शक्यत इति न किञ्चिदेतत् । ततो यतनां
"