________________
२८१
हत्वं जीवानाम्, यत्रत्वल्पे तत्राल्पत्वम् । वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जल तत्थ वर्ण' इति वचनात् , तत्रावश्यं पनकसेवालादीनां भावात् , ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तमूक्ष्मावगाहनत्वाद् अतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः। तथा चोक्तमनुयोगदारेषु-" 'ते णं वालग्गा मुहुमगणगजीवस्स सरीरोगाहणाहितो असंखेजगुणा” इति । ततो यत्रापि नैते दृश्यन्ते, तत्रापि सन्तीति प्रतिपत्तव्याः। आह च मूलटोकाकार:-इह "सर्वबहवो वनस्पतयः" इति कृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानाम्, तेषां बहुत्वम्, " २जत्थ आऊकाओ तत्थ णियमा वणस्सइकाइआ” इति। पगगसेवालहढाई बायरा वि होंति, सुहुमा आणागेज्झा ण चक्खुण'त्ति ॥ किश्च-नयुत्तारादौ मण्डूकादित्रसविराधना “तसा य पञ्चक्खया चेव”त्ति वचनात् अवश्यं जायमानाभोगपूर्विकेव, इत्येवं च सति जीवोऽयमिति साक्षात्कृत्वा यो जीवघातं करोति तस्य विरतिपरिणामो दूरे, निश्चयतः सम्यक्त्वमपि न स्यात् , अनुकम्पाया अभावेन सम्यक्त्वलक्षणाभावाद्-इत्यादि परोक्तं यत्किञ्चिदेव, आप्तवचनाजीवत्वेन निश्चितस्य विराधनायाः स्वादर्शनमात्रेणाभोगपूर्वपूर्वकत्वाभावे अमोक्तवस्त्राद्यन्तरितत्रसादिविराधनायामपि तदापत्तेः, दृष्ट्वा स्थूलत्रसविराधनायामाभोगविशेषाद्विषयविशेषाच पातकविशेषस्तु स्याद्न चैतावताऽन्यत्रानाभोग एव व्यवस्थापयितुं शक्यते । न खलु राजदारगमने महापातकाभिधानादन्यत्र परदारगमने परदारगमनत्वमेव नेति वक्तुं युक्तम् । एतेनाभोगमूलाऽऽभोगपूर्विका च जोवविराधना विनापराधं मिथ्यादृशोऽपि प्रायोऽनार्यजनस्यैव भवति, सा च नावश्यं भाविनी, प्रायः सम्भविसम्भवात् । संयतानां त्वनाभोगमूलैव सा, नत्वाभोगमूला, अत एव नद्युत्तारादौ सत्यामपि जलजीवविराधनायां संयमो दुराराधो न भणितः, भणितश्च कुन्थूत्पत्तिमात्रेणापि, तत्र निदानं तावदाभोगोऽनाभोगावेव । तत्र यद्यपि संयतानामुभयत्रापि जीव विराधनाऽनाभोगादेव, तथापि स्थावरमूक्ष्मत्रसजीवविषयकोऽनाभोगः सर्वोशैरपि सर्वकालीनो न पुनः क्वाचिकः कादाचित्कच, तस्य चापगमः प्रयत्नशतैरप्यशक्यः, केवलज्ञानसाध्यत्वात् , शक्यश्च कुन्थ्वादिस्थूलत्रसजीवविषयकस्यानाभोगस्य भूयो निरीक्षणादिनेति, तथाभूतं च निरीक्षणं दुःसा
१ ते च वालाग्राणि सूक्ष्मपनकजीवस्य शरीरावगाहनाभ्योऽसंख्येयगुणानि ॥
२ यत्राकायस्तत्र नियमाद् वनस्पतिकायिका इति । पनफसेवालहदादयो बादरा अपि भवन्ति सूक्ष्मा आशाग्राहा न चक्षुषेति ॥
॥