________________
१८०
' वज्र्जतोय'ति । तत्र नद्युत्तारे जलजीव विराधनामनिष्टां साक्षाद्रर्जयन वर्ज - नोयामभ्युपगच्छंश्च जलजीवानाभोगं जल्पयन् किं न लजसे ? अयं भावः - नद्युतारे बहुजलप्रदेशपरित्यागेनालजल प्रदेश प्रवेशरूपा यतना तावत्त्वयापि स्वीक्रियत्रे, सा च जलजीवानाभोगाभ्युपगमे दुर्घटा, स्वल्पजलं सचित्तं भविष्यति हु जलं चाचित्तमिति विपरीत प्रवृत्तिहेतुशङ्कापिशाची प्रचारस्यापि दुर्वारत्वाद् । भगवदुक्तयतनाक्रमप्रामाण्यानेयं शङ्केति चेत् तर्हि यतनाया अपि बहुतरासस्मवृत्तिनिवृत्तिरूपाया विवेकेन परिज्ञानं न्यूनाधिकजलजीवविराधनाभोगाधीनमिति व्यवहारसचित्ततया जलजीवाभोगाभ्युपगमावश्यकत्वात् तव वदद् (तो) व्याघात एव महात्राकारणमिति । किञ्च नद्यादिजलजीवानां निश्चयतश्छद्मस्थानां सचितत्वापरिज्ञानेऽपि तत्र स्थितपनक सेवालादीनां निश्चयतोऽपि सचित्तत्वं परिज्ञायते एव । तदुक्तमोघनिर्युक्तौ -
"
'सव्वो अनंतकाओ सच्चित्तो होइ णिच्छयणयस्स । ववहारओ अ सेसो मीसो पम्हाणरोट्टाइ || १ || ”
46
एतद्वृत्तिर्यथा - सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परीतवनस्पतिर्व्यवहारनयमतेन सचित्तो मिश्रच प्रम्लानानि कुसुमानि पर्णानि च, 'रोट्टो लोट्टो तत्थ तंदुलमुहाई अत्यंति, तेण कारणेन मीसो भन्नइत्ति । " ते च पनकशेवालादयो जलेऽवश्यं भाविन इति तद्विषयविराधना निश्चयतोऽप्याभोगेन सिद्धेति । तत्रानाभोगेनैव जीवविराधनेति दुर्बचनम् । न च ते तत्रास्माभिः प्रत्यक्षतो न दृश्यन्ते, अतस्तद्विराधनाsनाभोगजैवेति वक्तव्यम्; स्वच्छस्ताकजलनद्यादिषु पनकादीनामस्माभिरप्युपलभ्यमानत्वेन ' नास्माभिस्ते तत्र दृश्यन्त' - इत्यस्यासिद्धत्वात् । किंच आगमवचनादपि तत्र तदवश्यंभावी निश्चीयते । तदुक्तंप्रज्ञापनातृतीयपदवृत्ती - "वादरतेजस्कायिकेभ्योऽसङ्ख्येयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः तेषामत्यन्त सूक्ष्मावगाहनत्वाद्, जलेषु सर्वत्रापि च भावात् । पनकसेवालादयो हि जलेऽवश्यंभाविनः, ते च बादरानन्तकायिका इति । तथा बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याततया तेषां प्राप्यमाणत्वात् । ततो यत्र ते बहवस्तत्र ब
१ सर्वोऽनन्तकाय: सचित्तो भवति निश्चयनयस्य । व्यवहारतश्च शेवो मिश्रः प्रम्लानरोट्टादिः ॥